पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२४ काव्यमाला।

इत्यालोच्य चिताभ्यर्णे निमील्य नयने निजे । तथैव भृशमस्वस्था तस्थौ द्रुपदनन्दिनी ॥ ६०२ ॥ देवशर्मापि सावित्री स्वकलत्रमभाषत । उत्पातस्याहमेतस्य संजातोऽस्मि निबन्धनम् ॥ ६०३ ।। निहितो बन्धुरेतेषां दृशोरविषये मम । रक्षसा हन्यमानांस्तु द्रष्टुं शक्ष्याम्यमून्कथम् ॥ ६०४॥ तच्चेदुद्बन्धनं कुर्यां विशेयं वा महीं यदि । विदीर्य च स्वयं चेद्वा स्यात्तदैव मम प्रियम् ॥ ६०५ ॥ इति जल्पत एवास्य कुर्वन्किलकिलारवान् । बभूव भीमः सर्वेषां तेषां लोचनगोचरः ॥ ६०६ ॥ अथ व्यापारितस्फारफालमालोक्य तं तदा। तेषां रोमोद्गमव्याजात्सर्वाङ्ग मुदितं मुदा ॥ ६०७ ॥ अथ स्फूर्जदवष्टम्भमभाषिष्ट युधिष्ठिरः। बन्धुर्मीमो मदीयः किं राक्षसैः परिभूयते ॥ ६०८ ॥ भवितारस्तरां पञ्चाप्यजय्या जगतोऽप्यमी। इयन्ती भारती दिव्या जन्मोत्था हि किमन्यथा ॥ ६०९ ॥ गति भवन्तो गन्तारः क्रमात्पञ्चापि पञ्चमीम् । इत्याख्यायि मुनीन्द्रर्यत्तदसत्यं भवेत्किम् ॥ ६१०॥ एवमस्मिन्वदत्येव वेगादेत्य बृकोदरः। कुन्ती च ज्येष्ठबन्धुं च नमस्यामास सादरम् ॥ ६११ ॥ दूरात्प्रणमतो बन्धून्समालिङ्गय कनीयसः । स्मितोत्फुल्लमुखो भीमः पप्रच्छ क्षोभकारणम् ॥ ६१२ ।। अथ पार्थः समाचख्यौ यथावृत्तं तदातनम् । दिक्षु भीमोऽथ चिक्षेप चक्षुः कृष्णादिदृक्षया ॥ ६१३ ॥ दृष्ट्वा कृष्णां तथाभूतां चितानिकटवर्तिनीम् । स गत्वा पिदधे तस्याः पाणिभ्यां क्रीडया दृशौ ॥ ६१४ ॥