पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ३२३

राज्यभ्रंशं प्रवासं च विना भीमे सुदुःसहम् । विभाव्य धर्मपुत्राद्यैर्मरणायोपचक्रमे ॥ ५८९ ॥ अहमेवाभवं हेतुरेतस्मिन्नसमञ्जसे । इति निश्चित्य संनद्धं मृत्यवे देवशर्मणा ॥ ५९० ।। अथाश्रूयत तैः सर्वैर्ब्रह्मस्तम्बोदरंभरिः। गुहागहरवर्धिष्णुर्मुहुः किलकिलारवम्(वः) ॥ ५९१ ॥ श्रुत्वा तं चिन्तयामास सक्षोमं धर्मनन्दनः। भीमं हत्वायमभ्येति हन्तुमस्मानिशाचरः।। ५९२ ।। शीर्षच्छेद्यो ह्यसौ दिष्ट्या स्वयमेत्यस्मदन्तिकम् । वैरं निर्यात्य भीमस्य करिष्यामः स्वमीप्सितम् ॥ ५९३ ॥ विचिन्त्येत्यवदत्पार्थ वत्सागच्छति राक्षसः । अस्य जीवितमादाय भीममुज्जीवय द्रुतम् ॥ ५९४ ॥ इत्यादिष्टः स कोपेन किरीटी ज्येष्ठबन्धुना । अधिज्यं धनुरादाय तस्थौ रक्षोदिशं प्रति ॥ ५९५ ॥ कुन्ती तु चिन्तयामास पार्थः कर्षति संप्रति । राक्षसापसदस्यास्योदरादाशु वृकोदरम् ॥ ५९६ ॥ अस्मिन्कृतान्तपादान्तपरिचारिणि वैरिणि । अन्वेष्यामि सुखेनैव भीममत्यन्तवत्सलम् ॥ ५९७ ।। चक्रे मनसि कृष्णापि भयात्कृष्णमुखी ततः। हा हतास्मि पतीनेतान्हन्तुमेति क्षपाचरः॥ ५९८ ॥ यत्र निर्नाम निर्मग्नं भीमस्यौजो महौजसः। तत्र पार्थस्य शौण्डीर्यं किंतु(नु) नाम करिष्यति ॥ ५९९ ॥ दुष्टस्य यस्य नियूंढश्चण्डांशावपि चण्डिमा । ग्रसते स सुधारश्मिं राहुरत्र किमद्भुतम् ॥ ६०० ।। तन्मे भर्तृवध वेधा दुर्मेधा दर्शयिष्यति । न च वीक्षितुमेतं च क्षमेते मम लोचने ॥ ६०१ ॥