पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२२ काव्यमाला।

अथवा तव सार्थेन यास्यतो मम निश्चितम् । विरोधसावधानोऽपि किं विधाता सुयोधनः ॥ ५७६ ।। इत्थं विलापविकलो यावदालोकते पुरः। तावद्धर्मात्मजः कुन्तीं जातमूर्छामुदैक्षत ॥ ५७७ ॥ तनूजैस्तैस्ततः कुन्ती वीजिता प्राप्य चेतनाम् । पर्यदेवत हा वत्स सत्त्वोदार वृकोदर ॥ ५७८ ॥ मुनिभिर्वज्रकायस्त्वं कथितस्तत्कथं बकः । मृणालकन्दलीछेदमिदं चिच्छेद ते शिरः॥ ५७९ ॥ तवैतस्योत्तमाङ्गस्य क्रियेऽहमवतारणम् । येन गिरिग्रावा भस्मचूरमचूर्यत ॥ ५८० ॥ प्रकाशः प्राग्ययोरासीत्तामसीष्वपि रात्रिषु । नेत्राभ्यामधुना ताभ्यां कथं मामपि नेक्षसे ॥ ५८१ ।। तेषु तेष्ववदातेषु मुहुराधायि यो मया सोऽयं सन्मूर्द्धजो मूर्द्धा कथं लुठति भूतले ॥ ५८२ ।। इत्थं विसंष्ठुलं कुन्त्यां विलपन्त्यां मुहुर्मुहुः । तमुपादाय मूर्द्धानं द्रौपदी विदधौ हृदि ।। ५८३ ॥ व्यलपत्तुमुलं सापि पादपान्तरिता ततः । हा नाथ मथिताराते व गतोऽसि विहाय माम् ॥ ५८४ ॥ मया प्राणेश ये केशा विकीर्णाः करकङ्कतैः । धूलिधूसरितास्तेऽमी विलुठन्ति भुवस्तले ।। ५८५ ॥ विद्रुमाभः पुरा योऽभूत्सुधाखादस्तवाधरः। घिग्विधे सोऽधुना धत्ते प्रम्लानेन्दीवरश्रियम् ॥ ५८६ ॥ अध्यशेत ममोत्सङ्गे यः शयालरनेकधा । अयं स एव मौलिस्ते गाहते हि महीतलम् ॥ ५८७ ॥ जानीयास्त्वमिदानी मामात्मान्तिकमुपेयुषीम् । एवं विलय पाञ्चाली चितामारचयत्तदा ।। ५८८ ॥