पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२१
पाण्डवचरितम् ।

अथोवाच तपःसूनुः सूनृतैकनिकेतनम् । मा विषीद महाभाग पर्याप्तं परिदेवितैः ।। ५६४ ॥ न जातु यातुधानेन महन्धुः परिभूयते । तमस्काण्डेन चण्डांशुः किं कदापि विलुप्यते ॥ ५६५॥ भीमस्य भुजपाशेन लीलयापि निपीडितः । कृतान्तस्यान्तिकं गन्ता बको बक इव ध्रुवम् ॥ ५६६ ॥ इति तस्मिन्वदत्येव मुक्तसूत्कारमम्बरात् । पपात चण्डमुच्चण्डगण्डशैलोपमं पुरः ॥ ५६७ ॥ चकम्पे काश्यपी शैलाः पेतुर्यस्मिन्निपेयु(तु)षि । तत्किमेतदिति क्षोभात्ते प्रैक्षन्त मुहुर्मुहुः ॥ ५६८ ॥ भीमस्य प्रथितैस्तेऽथ चिट्ठनिश्चिक्यिरे शिरः। तदैव मुक्तकण्ठं च सर्वे परिदिदेविरे ॥ ५६९ ।। चक्रन्द नन्दनः पाण्डोर्ज्यायानुज्झितधीरिमा । हा वत्स विश्वसाधार हा हिडम्बविडम्बन ।। ५७० ।। अवधीस्त्वं नरव्याघ्र पुरा राक्षसकुञ्जरान् । किमिदानी बकेनापि लम्भितोऽसि दशामिमाम् ॥ ५७१ ॥ बकं हत्वा ध्रुवं पार्थों विधाता वैरयातनाम् । त्वयाधुना विमुक्तास्तु भविताः स्मः कथं वयम् ॥ ५७२ ।। सुखं निद्रायमाणानामतिश्रान्तिजुषां पथि । को नाम यामिकोऽस्माकं भविष्यति विना त्वया ॥ ५७३ ।। प्रचण्डतरसास्माकमगाधेऽध्वमहाम्बुधौ । उपात्तोड्योतकाष्ठेन वत्स पोतायितं त्वया ॥ ५७४ ॥ मामिदानीं त्वया सौम्य त्यक्तं विधुमिवाधुना । बाढं बाधिष्यते क्रूरः सुयोधनविधूतुदः ।। ५७५ ॥सौम्यो बुधः. 'ग्रहपञ्चकसंयोग दृष्ट्वा न ग्रहण वदेत् । यदि न स्यादुधस्तत्र तं दृष्ट्वा ग्रहणं वदेत् ॥' दनुगामिनीयं कल्पना