पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

शंस मे भद्र कस्यायं प्रासादः प्रांशुरग्रतः । कश्च त्वं कुत्र वा तिष्ठेद्रक्षोभक्ष्यः पुमानिह ।। ५२५ ॥ सोऽवोचत्कारितः पौरैः प्रासादः सैष राक्षसः। स्थाने चास्मिन्बलिः शेषराक्षसेभ्यो निधीयते ॥५२६॥ अहं तु पौरनिर्दिष्टः प्रासादपरिचारकः । पर्यायोपगतोऽध्यास्ते बध्यो बध्यशिलामिमाम् ॥ ५२७॥ महात्मन्कौतुकाकिंतु किंचित्पर्यनुयुज्यसे । स्वादृग्लोकत्रयीजैत्रभुजः कोऽप्यत्र नाययौ ॥ ५२८॥ नाप्यस्ति वध्यवेषस्ते न च ते दीनमाननम् । लम्बते निम्बमाला च न तवाधिशिरोधरम् ।। ५२९ ।। इति प्रश्नपरे तस्मिन्नकस्मादेव दुःश्रवः । पुरो याहि पुरो याहीत्येवं कोलाहलोऽभवत् ॥ ५३० ॥ तं श्रुत्वा स पुनः प्राह नन्वसावेति राक्षसः । ततो व्यवहितो भूत्वा देव स्थास्यामि संप्रति ॥ ५३१ ॥ इत्युक्त्वान्तर्हिते तसिन्दूरादायाति राक्षसे । पल्यङ्किकामिव शिलां लीलयाध्यास्त पाण्डवः॥ ५३२ ।। अथोपेतः समं प्रेतपिशाचैः स निशाचरः । सुखोत्तानशयं क्रूरः प्रेक्षांचक्रे वृकोदरम् ।। ५३३ ॥ अचिन्तयच्च कोऽप्यध पीवरोरुमहोदरः । आगात्पुमान्न यो माति विपुलेऽपि शिलातले ॥ ५३४ ॥ असौ बुभुक्षाक्षामस्य भूत्वा कुक्षिभरिर्मम । पीनः परिच्छदस्यापि भविष्यत्युदरंभरिः ॥ ५३५ ॥ इति प्रमुदितवान्तो दन्तान्सोऽत्यन्तदारुणः । देहे व्यापारयामास मांसले पाण्डुजन्मनः ॥ ५३६ ।। भीमस्य वज्रकायस्य काये व्यापारिता अपि । अवापुः कुण्ठतां तस्य दन्ताः कुन्ता इवाश्मनि ॥ ५३७ ॥