पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

वीक्ष्य भस्मस्थलीः स्थूलाः कीर्तीस्तेषां निशम्य च । ममापि निरवाप्यन्त बाष्पैः कूलंकषा दृशः ॥ ५१२ ।। अथावेद्य कथामेतां स पान्थः प्रस्थितः पुरः। आक्रन्दश्चैकचक्रायां चक्रेऽतितुमुला दिशः ॥ ५१३ ॥ न मातुर्न पितु व खामिनो मृत्युवार्तया । अभवत्तादृशः शोकः पौराणां यादृशस्तदा ॥ ५१४ ।। निःप्रत्याशैर्निरानन्दैततःप्रभृति नागरैः । पूर्यते यातुधानस्य विशेषेण मनीषितम् ॥ ५१५॥ तदिदानी द्रुतं यामि प्रणम्य कुलदेवताम् । सर्वेषामेव युष्माकं जज्ञेऽनुज्ञाजलिर्मम ॥ ५१६ ॥ इति व्याहृत्य धैर्येण संवर्मितमनास्ततः । सकुटुम्बोऽप्यगाद्विप्रः प्रणन्तुं कुलदेवताम् ॥ ५१७ ॥ अथाभ्यधात्पृथा भीमं वत्स त्वयि तनूरुहे। एकस्यापि द्विजस्यास्य नाभूवमभयप्रदा ।। ५१८॥ धन्यास्ते सति सामर्थ्य धारायां वार्षिसीमनि । ये सर्वप्राणिरक्षार्थ ददत्यभयडिण्डिमम् ।। ५१९ ।। ये तूपकारकस्यापि विपन्नद्यां निपेतुषः । निबिड नोडुपायन्ते तेषामजननिर्वरम् ।। ५२० ॥ महापदमपाकर्तुमेतामस्योपकारिणः । अहं(न)हं तावदलंभूष्णुस्तन्मां धिक् धिक् च मे सुतान् ॥५२१॥ तद्गच्छ बलिमादाय निवासं तस्य रक्षसः । विदधीथास्तथा तत्र सत्यः स्यात्केवली यथा ॥ ५२२ ॥ एवमादेशमासाद्य मातुः पादौ प्रणम्य च । सच्छायपादपं प्राप बकोद्यान वृकोदरः॥ ५२३ ॥ पश्यन्स्मेरमुखस्तस्य वनस्य कमनीयताम् । पुरतः पुरुषं कंचिदृष्ट्वाभाषिष्ट पाण्डवः ।। ५२४ ॥