पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१६ काव्यमाला।

मुनिनाथोऽप्यथाचख्यौ भो भद्राः पाण्डुसूनवः । जिता द्यूते यदेष्यन्ति वनवासक्रमादिह ।। ४९९ ।। असौ तदानीं भविता नगरी निरुपद्रवा । सदाप्यगोचरो वाचां महिमा हि महात्मनाम् ॥ ५०० ॥ इत्याख्याय स लोकाय जगाम मुनिपुङ्गवः । तादृशां हि महीं सी प्रियां कर्तुमुपाक्रमः ॥ ५०१ ॥ तेन चन्द्रातपेनेव मुनीन्दोर्वचनेन ते । बभूवुः प्रीतिकल्लोलैर्नागराः सागरा इव ।। ५०२ ॥ वर्णा अपि सुधाकीर्णाः पाण्डवाः पाण्डवा इव । एतद्वाच्या भविष्यन्ति पुमांसः कीदृशाः पुनः ।। ५०३ ॥ इत्युक्तः कुलदेवीभिः पाण्डवागमनैषिमिः। उपयाजितलक्षाणि पौरैः प्रत्येकमीषिरे ।। ५०४ ।। (युग्मम् ) हस्तिनापुरमार्गेण नानोपायनपाणयः । प्रत्युद्ययुश्च ते नित्यं पाण्डवेयान्प्रति प्रगे ॥ ५०५॥ जनानां जनतामेतानद्यश्वीनसमागमान् । एकदा पथिकः कश्चिदाययौ तेन वर्मना ॥ ५०६ ॥ स तैरप्रच्छि भोः पान्थ कथयास्मिन्पथि कचित् । उदन्तः पाण्डवेयानां कश्चित्कचित्त्वया श्रुतः ॥ ५०७ ।। शशंस सोऽपि भोः पौराः पथि चंक्रमणैः क्रमात् । आगतोऽसि श्रियो वासवारिजे वारणावते ॥ ५०८ ॥ जनेभ्यस्तन्निवासिभ्यः सबाष्पेभ्यः पदे पदे । इति कर्णविषं तसिन्नौषमतिदारुणम् ॥ ५०१ ॥ दुर्योधनस्य वचसा वसन्तो जातुषे गृहे । इह चण्डाः सुताः पाण्डोर्दाहं प्रापुः प्रदीपनात् ।। ५१० ॥ इहानुजीविभिस्तेषां विरचय्योचिताश्चिताः । प्राणास्तेनैव सार्थन प्रहिताः प्रभुवत्सलैः ।। ५११ ॥१. 'कचित्कश्चित्त्वया श्रुतः' इति स्यात.