पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

भवन्तमन्तकप्राथायोऽभिरक्षति राक्षसात् । तमेव सुतमात्मीयमम्बा मनसि मन्यते ॥ ४८६ ॥ तदहं विहितोत्साहो मातुराधातुमीप्सितम् । त्वं तिष्ठ निष्ठुरं दुष्टमुपस्थातास्मि राक्षसम् ॥ ४८७ ॥ देवशर्मा ततः प्राह मैवं वद महामते । न क्षमे श्रोतुमप्येतामब्रह्मण्यां गिरं तव ॥ १८८ ।। उररीकृत्य ते मृत्यु नात्मानं त्रातुमुत्सहे । इन्द्रनीलोपमर्दैन कः काचं परिरक्षति ॥ ४८९ ॥ मादृशस्य द्विजस्याथै नररलं भवादृशम् । राक्षसायोपनेतव्यमिति कोन्योऽपि मन्यते ॥ ४९० ॥ त्वादृक्षो विरलः कोऽपि परोलक्षास्तु मादृशाः । खल्पः कल्पतरोंके भूयांसोऽन्ये हि भूरुहः ॥ ४९१ ॥ नियन्ते पञ्चषाण्येव मानुषाणि मृते मयि । अस्या मूर्तेर्विपत्तौ तु सर्वा सीदति मेदिनी ॥ ४९२ ॥ एतौ तब भुजौ वीक्ष्य स्वयं त्रस्यन्ति शत्रवः । अक्षामस्थामधामायं न पुनर्बकराक्षसः ॥ ४९३ ॥ एक एव बको यद्वा तव दोःपाशयोः पुरः । केवलं केवलिप्रोक्ता गिरः संशयकारणम् ॥ ४९४ ।। यतोऽमुष्यां पुरा पुर्या केवली मुनिराहतः । उदियाय पुरः शैलचूलायामिव भास्करः ।। १९५॥ सर्वे बन्दारवः पौरास्तदभ्यर्णमुपाययुः । सोऽपि कारुणिकस्तभ्यः परं धर्ममुपादिशत् ॥ ४९६ ॥ तेनोपदेशपीयूषपातेन प्रसरन्मुदः । समये विश्वमार्तण्डं मुनीन्द्रं तेऽन्वयुञ्जत ॥ ४९७ ॥ प्रभो प्रसीद सीदन्ति पौराः सर्वे निवेद्यताम् । विरस्यति जनस्यास्य राक्षसोपद्वः कदा ॥ ४९८॥