पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१४ काव्यमाला।

मा रोदीस्तात मास्माम्ब रोदीर्मास्म रुदः स्वसः । अनया कम्बया गत्वा तं हनिष्यामि राक्षसम् ॥ ४७३ ॥ मुहुर्मुहुर्ब्रुवन्नेवं चालयंस्तां लतां शिशुः । बाष्पलते दृशौ तेषां प्रममार्ज पुनः पुनः ।। ४७४ ॥ तेषामेकैकशो नेत्रे स ममार्ज यथा यथा । अम्भस्तथा तथा ताभ्यां निर्झराभ्यामिवाभ्यगात् ।। ४७५ ॥ अथ कुन्ती बलोदात्तां तां वालस्य सरस्वतीम् । रक्षोवधैकपिशुनामुपश्रुतिममन्यत ।। ४७६ ।। द्विजन्मानमवादीच दयालुहृदयाधिकम् । हतमेवेति तं वत्स लक्षये राक्षसाधमम् ॥ ४७७ ॥ वध्यवेषममुं मुश्च किं च सिञ्चन्कुटुम्बकम् । वात्सल्यामृतकुल्याभिश्छायां नय पुरातनीम् ॥ ४७८ ॥ शौण्डीर्योपचिताः पञ्च ममामी सन्ति सूनवः । तेषामेकतमो गत्वा तं हनिष्यति हेलया ॥ ४७९ ॥ इति कुन्तीवचः श्रुत्वा हसन्नाह द्विजोत्तमः । न जानासि जगज्जेत्रं त्वमम्ब बकविक्रमम् ॥ ४८० ॥ तस्मिशौण्डीर्यशौण्डानां दोर्दण्डवलडम्बरम् । अन्तर्भजति मार्तण्डे तेजस्तेजस्विनामिव ॥ ४८१ ॥ अहमेव वर मातर्यातः कीनाशदासताम् । न तु विश्वजनीनात्मा तनयस्तव कश्चन ॥ ४८२ ।। इति द्विजन्मनो वाचं व्याख्यातबकविक्रमाम् । आकर्ण्य मातुरभ्यर्णवर्ती भीमस्तमभ्यधात् ।। ४८३ ।। त्वया पुत्रवर्तिमन्या माता नः सर्ववत्सला । पश्यन्त्यपायमायातमन्तःसंतप्यतेतराम् ॥ ४८४ ।। जननीयं कृतज्ञानां त्वं च विश्वोपकारिणाम् । धौरेयतामयासिष्टमिति पश्यति मे मतिः ॥ ४८५ ॥