पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ३१३

तन्निराशं निरालम्बं कुटुम्बं मम रोदिति । आश्रयद्रुमनाशे हि दीनाः क्रोशन्ति पक्षिणः ॥ ४६०॥ किं चान्यत्संकटं यन्मे तन्मातः शृणु संप्रति । यदेषा ब्राह्मणी वक्ति मामिदानी पुनःपुनः ॥ ४६१ ।। किं कार्यममुना नाथ त्वां विना जीवितेन मे । सापत्यापि भृशं लप्स्ये त्वदृते हि पराभवम् ॥ ४६२ ॥ ततोऽहमुपहाराय तस्य यस्यामि रक्षसः । कल्पायुस्त्वं पुनर्भूया भुजानो भूयसीं श्रियम् ।। ४६३ ॥ त्वत्प्राणत्राणकारिण्याः कुलेऽस्तु कलशो मम । भर्तुर्विपदमाच्छेत्तुमतिच्छेकाः कुलस्त्रियः ॥ ४६४ ॥ भुक्तं मृष्टं सुखं स्पृष्टं दृष्टं मुखमपत्ययोः । त्वत्तः किं किं मया नाप्तं नास्ति मृत्योभयं मम ।। ४६५ ॥ ब्रजन्तं केवला नेयं मां रुणद्धि सधर्मिणी । असावप्यात्मजेदानीं सुदती वदतीति तौ ॥ ४६६ ॥ ममान्तर्मा स्म वा तात गच्छतं रक्षसो मुखे । आहारमुपहारं वा कर्तु तस्योद्यतास्म्यहम् ॥ ४६७ ।। बालोऽयं युवयोरेव जीवतोरेष जीवति । मातापि तातशुश्रूषां करोत्वाकल्पजीविनी ॥ ४६८॥ यदि मां नानुमन्यध्वे युवां नास्मि तथाप्यहम् । युवयोर्गेहवास्तव्या परार्था हि पतिंवरा ॥ ४६९ ।। इति कुन्ति कुटुम्ब मां नानुजानाति मृत्यवे । अनुमन्येऽहमप्येतत्कथं रक्षोमुखेऽपतत् ।। ४७० ॥ आदेशश्च नरेशस्य सर्वथा दुरतिक्रमः । तत्किंकर्तव्यतामूढः पतितोऽस्म्यत्र वैशसे ॥ ४७१ ॥ इति विप्रे वदत्येव काशकम्बा विलोलयन् । वेगादागत्य बालस्तानवोचत्पश्चहायनः ॥ १७२ ।।