पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१२ काव्यमाला।

एवं विद्यापरीक्षायै पुरीसंहरणं वृथा । भस्मने भस्मसात्कुर्यात्को हि चन्दनकाननम् ॥ ४४७ ॥ तदेनमेनसामेकं संक्रमं चंक्रमं त्यज । किं च त्रिलोकीत्राणाय विद्या व्यापार्यतामियम् ॥ ४४८ ॥ सोपरोधमिति प्रोक्तः सोऽभ्यधान्निष्कृपः पुनः। मांसैकलुब्धमनसो दैन्यगृह्या न राक्षसाः ॥ ४४९ ॥ अस्ति युष्माकमेकस्तु पणः प्राणप्रियंकरः । मम दत्त्वोपहारं चेदेकं मानवमन्वहम् ॥ ४५० ॥ मदीयपुरनेदीयःकान्तारे भैरवाभिधे । मत्प्रसादार्थिभिः प्रांशुः प्रासादश्च विधाप्यताम् ॥ ४५१ ॥ जातु नैवं कृतेऽवश्यं भविता वः पराभवम् (वः) । सदैव दैवतेभ्योऽपि परचक्रात्तु का कथा ॥ ४५२ ॥ इदं वोऽस्तु पुरी त्रातुमेकमौपयिक परम् । तदरे रोचते यद्वस्तदाचरत संप्रति ॥ ४५३ ।। इति व्याहृत्य विरते दुर्नयासेवके बके । अनिष्टामपि तां पौरास्तद्विरं प्रतिशुश्रुवुः ॥ ४५४ ॥ अथेन्द्रजालिकेनेव राक्षसेन्द्रेण तत्क्षणात् । अपासायंत सर्वोऽपि शिलादिर्दिवि डम्बरः ॥ ४५५ ॥ ततः कुमारिकाकृष्टनामपत्रनियोगतः। पर्यस्थाप्यत पर्यायः पौरैः पुरनिवासिनाम् ॥ ४५६ ॥ बकमूर्तिसनाथश्च प्रासादो निरमीयत । बलिनश्च विधातुश्च नियोगः केन लङ्घयते ॥ ४५७ ॥ एकस्ततः प्रभृत्यं च पुमांस्तस्योपदीयते । असौ द्रोणप्रमाणश्च शाल्योदनमयो बलिः ॥ ४५८ ॥ तदेनं बलिमादाय मातर्नुपनिदेशतः। पर्यायोपगतः सोऽहं यास्यामि विपिनेऽधुना ॥ ४५९ ॥