पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

यक्षो वा यदि वा रक्षो योऽस्ति क्रुद्धः पुरी प्रति । असाखाज्ञाविधेयेषु सांप्रतं स प्रसीदतु ॥ ४३४ ॥ अथाकस्मान्मपीकालः कालरात्रिसहोदरः । पिङ्गाक्षिचिकुरः क्रूरः कश्चित्तैर्ददृशे दिवि ॥ ४३५ ॥ भीतास्ते कम्पमानाङ्गास्तमूचुः प्रश्रयाञ्चिताः । कोऽसि ब्रूहि महाभाग देवो वा दानवोऽथवा ॥ ४३६ ॥ असौ संहारसंरम्भः समारेमे कुतस्त्वया । तव नेतुं विना मन्तुमन्तं जन्तून सांप्रतम् ॥ ४३७ ॥ क्लिश्यन्ते हि महात्मानः परोपकृतिकाम्यया । तरणेः कारणं किंतु याम्यति नभोऽङ्गणे ॥ ४३८ ।। दधत्यात मुखं कर्तु(सुखी) कुलीनास्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनातपम् ॥ ४३९ ।। तदान्यदपि विश्वस्य शल्यमुद्धर्तुमर्हसि । एतत्कर्तुमकर्तव्यं किं पुनस्तव युज्यते ॥ ४४० ॥ एवमुच्चैस्तरामुक्तः सोऽभ्यधत्त नभःस्थितः । अरे विद्याधराधीशं मां जानीत वकाभिधम् ॥ ४४१ ॥ रत्नशैलाभिधे शैले पुरीसविधवर्तिनी(नि)। दुःसाध्या साधयांचके मया विद्याथ राक्षसी ॥ ४४२ ॥ ततः स्वविद्यामाहात्म्यविलोकनकुतूहुली। पुरीसंहारमधुना विधित्सुरयमस्म्यहम् ॥ ४१३ ॥ अरे चराकाः सपदि स्मरताभीष्टदेवताम् । शिलासंचूर्णितास्तूर्णमिदानी न भविप्यथः ॥ ४४४ ॥ तेऽथ तेनैवमाक्षिप्ताः पुनरेवं बभापिरे । विद्या विद्याधराधीश किं न कुर्यादसंशयम् ॥ ४१५॥ एतावतैव कार्येण पुरी संहर्तुमर्हसि । को नाम कीलिकाहेतोः प्रसादोच्छेदमिच्छति ॥ ४४६ ॥