पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।

सा तेन सहवासेन विस्मृतात्मनिकेतना। अनेकान्गमयामासुर्मासानेकाहलीलया ॥ ४२१॥ अन्यदा पवमानस्य तनये गृहवर्तिनि । अपरेष्वेव संक्रान्तस्वैरसंचारशालिषु ॥ १२२ ॥ देवशर्मकुटुम्बस्य कटुमाक्रन्दमुच्चकैः । आकर्ण्य कुन्ती कुन्तेन भिन्नेव हृदयेऽभवत् ॥ ४२३ ॥ गत्वाथ देवशर्माणं सा जगाद सगद्गदम् । तव वत्स कुतोऽमूलमेतद्दुःखं सुदुःसहम् ॥ ४२४ ॥ अथासौ कथयामास कथां कुन्त्याः सुदुःश्रवाम् । अस्यां पुरि पुरारिष्टमतिकष्टमजायत ॥ ४२५॥ पुरोपरि शिला गुर्वी दर्शिताकाण्डविद्भरा()। समालोक्यत कल्पान्तपुष्करावर्तसोदरा ॥ ४२६ ॥ युगान्तज्वलनोपज्ञधूमस्तोमोपमस्तदा । घोरान्धकारो विधुरं पुरीजनमजीजनत् ॥ ४२७ ॥ खण्डयन्भूरुहां खण्डान्ववौ चण्डः समीरणः । कनीयान्बान्धवो यस्य किल कल्पान्तमारुतः ॥ ४२८॥ अदृष्टपरचक्रान्तामेकचक्रां पुरीं तदा । भयस्याभिज्ञतां निन्युस्तान्यरिष्टानि सर्वतः ॥ १२९ ॥ अबलाभिश्च बालैश्च प्राणान्तिकमयाकुलैः । भर्तृणां च पितॄणां च चक्रे कण्ठग्रहस्तदा ॥४३० ॥ प्रत्येकं कुलदेवीनामीषुर्जातु स्थिताः पुरः। उपायाचितलक्षाणि पुरीवृद्धपुरंध्रयः ॥ ४३१ ॥ नैमित्तिकनिमित्तानि ग्रहान्मौहूर्तिकाः पुनः। शकुनं शकुनज्ञाश्च सर्वेऽप्यालोकयंस्तदा ।। ४३२ ।। नृपश्च पौरमुख्याश्च बद्धाञ्जलिपुटाः समम् । धूपमुत्क्षिप्य निक्षिप्य दृशं मूर्धन्यथाभ्यधुः ॥ ४३३ ॥