पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

अथाङ्गीकृत्य तत्तस्थौ हिडिम्बा वनमेत्य सा । वीतरागसपर्यासु पर्याकुलकराम्बुजा ॥ ४०८॥ मुद्रामाहत्य विप्राणां तदाचारमनोहराम् । एकचक्रामुपाजग्मुर्नगरी पाण्डुनन्दनाः ॥ ४०९ ॥ अदृश्यन्त विशन्तस्ते पुर्यामार्येण वर्त्मनि । द्विजेन जनतादत्तशर्मणा देवशर्मणा ॥ ४१० ॥ उपलभ्योपसंग्राह्यान्गुणगृह्यः स तान्कृती। गतच्छद्मा निजं सम नीत्वा काममपूजयत् ॥ ४११ ॥ अभणच्च गुणश्रेष्ठं ज्येष्ठं बान्धवमादरात् । भो भूमिदेव देवेन योजितः किंचिदर्थ्यसे ॥ ४१२ ॥ इदं मे वेश्म तामेतां पत्नी सौजन्यशालिनीम् । इमं पुत्रमिमां पुत्रीं जानीयाः सर्वमात्मनः ॥ ४१३ ॥ वसन्गेहे सुखेनान पवित्रय पुरीमिमाम् । सरला रत्नगर्भेति जनो जानाति संप्रति ॥ ४१४ ॥ तथेति प्रार्थनां गुर्वी प्रतिश्रुत्य युधिष्ठिरः । चक्रे कुटुम्बसंमत्या निवासं तस्य वेश्मनि ॥ ४१५ ।। विप्राचारभृतो बाह्ये खान्ते तु परमाहताः । ते धर्मकर्मठास्तत्र वासरानत्यवाहयन् ॥ ४१६॥ श्वश्रूशुश्रूषणप्रीतचेताः पाञ्चालनन्दिनी । पुत्रीप्रीतिपरा तस्यां कुन्ती चानचतुर्जिनम् ॥ ४१७ ॥ कुटुम्बस्यानुकूल्येन प्रातिकूल्यं विधेस्तदा । न किंचित्ते विदांचक्रुरेकचक्रानिवासिनः ।। ४१८ ॥ सावित्री नाम तस्यास्ति कलत्रं देवशर्मणः । तया वैनयिका(विनीतया) कुन्या मनः परवशीकृतम्॥४१९॥ कुन्ती कृष्णासधर्माणं स्नुषां तामप्यजीगणत् । पौत्रावेव च तत्पुत्रौ गङ्गादामोदराभिधौ ॥ १२०॥