पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०८ काव्यमाला।

इत्याकर्ण्य हिडिम्बाथ राक्षसान्वयदुर्लभम् । निर्मन्तुत्रसजन्तूनां प्रतिषेधं वधे व्यधात् ॥ ३९५ ॥ देशनान्ते स्वयं कुन्ती संशयापगमक्षमम् । मुनिं पर्यनुयुङ्क्ते स्म विनयाद्विहिताञ्जलिः ।। ३९६ ॥ पराभवसहस्राणां पदमापदमीदृशीम् । किमते निस्तरिष्यन्ति कदापि मम सूनवः ।। ३९७ ॥ त्रिलोकीं हस्तविन्यस्तकुवलीफललीलया । पश्यन्मुनिरिमां वाचं व्याजहार मनोहराम् ॥ ३९८ ॥ विभावय महाभागे भवितारः सुतास्तव । क्रमेणानुपमानाया मुक्तेर्मुक्तेश्च भाजनम् ॥ ३९९ ॥ पुनरेव निजं राज्यं कैश्चिदासाद्य वासरैः । ज्येष्ठोऽयं दुष्टसंहर्ता कर्ता धर्मप्रभावनाम् ॥ ४००॥ क्रमात्कर्माणि निर्मूल्य संयमाराधनादमी। पञ्चापि विश्वत्रातारो यातारः पञ्चमीं गतिम् ॥ ४०१॥ इमां निशम्य ते वाचं वाचंयमशिरोमणेः । पीयूषसेकसोदर्यामासेदुः परमां मुदम् ॥ ४०२ ॥ तत्र ज्ञानसुधाम्भोधावन्यन्त्र प्रस्थिते मुनौ । धर्मानुरागिणीं ज्यायान्हिडिम्बां पाण्डवोऽभ्यधात् ।। ४०३॥ निष्कारणोपकारिण्याः शुभे साहाय्यकात्तव । अटवीतटिनीप्रायः पन्था दुर्गोऽपि लङ्घितः ।। ४०४ ॥ वयं नगर्यामेतस्यां स्थास्यामः कतिचिद्दिनान् । तद्गच्छ भद्रे स्वभ्रातुः सनाथां कुरु संपदम् ॥ ४०५ ॥ गर्भाभिधाने मद्भातुर्निधाने यत्नमातनु । पात्रे न्यासीकृता संपदधिकां वृद्धिमश्नुते ॥ ४०६ ॥ स्मृता तु समये वत्से समुपस्थातुमर्हसि । मनोऽभ्युपेतनिर्वाहे सावधानं महात्मनाम् ॥ ४०७ ॥१. त्रसंवनम्. २. कुवलीफल बदरीफलम्.