पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ३०७

स्वाधीनपतिका प्राप्य कामानतिमनोरमान् । क्रमादापन्नसत्त्वासौ जज्ञे पुण्यजनेश्वरी ॥ ३८२ ॥ अथ क्रमादतिक्रम्य पन्थानं पाण्डुसूनवः । नगर्यामेकचक्रायां काननान्तःकृतस्थितिम् ॥ ३८३ ।। सुवर्णकमलासीनं दिशन्तं धर्ममुत्तमम् । वपुष्मदिव चारित्रं ज्ञानिनं ददृशुर्मुनिम् ॥ ३८४ ।। (युग्मम्) मुनेर्दर्शनमात्रेण सुधास्नपनबन्धुना । तेषां श्रद्धाजुषामध्वश्रमः सर्वो व्यलीयत ॥ ३८५ ।। तेऽन्तर्मलमपाकर्तुमुत्तालमनसस्तदा । मुनिपादारविन्दस्य वन्दनार्थमुपाययुः ॥ ३८६ ॥ भवभ्रान्तिपरिक्लान्तजन्तुविश्रान्तिपादप । परोपकारनिर्व्याज मुनिराज नमोऽस्तु ते ॥ ३८७ ।। इत्यानन्दपतद्वाष्पमभिष्टुत्य युधिष्ठिरः। समान्तः संकुचज्जानुः सानुजः समुपाविशत् ॥ ३८८॥ दरिद्रपान्थवेशेषु दिविषन्मूर्तिधारिषु । तदानीं तेषु सभ्यानां निपेतुर्युगपद्दृशः ॥ ३८९ ।। अथापदापगोत्तारे द्रोणीमिव दृशं क्षिपन् । तानाश्रित्य विशेषेण मुनिराधत्त देशनाम् ॥ ३९० ।। एक एव पुमर्थेषु धर्मश्चूडामणीयते । दया च सर्वसत्त्वेषु तस्यापि तिलकायते ॥ ३९१ ॥ प्रावृट् पाथोधिवीथीव करुणा चाप्यकृत्रिमा । वनराजीव(जी च) राज्यं च नवतां नयतः पुनः ।। ३९२ ॥ दया प्राणिषु सर्वेषां गदानामगदः परः । अनर्थ्यमायुर्दैर्घ्यस्य कारणं करुणां विदुः ॥ ३९३ ।। शुक्तिरुन्नतिमुक्तानां मुक्तिसंगमदूतिका । दया नियतमेकापि सर्वकल्याणकारणम् ॥ ३९४ ॥