पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

अथाधमर्णमन्याभ्यां हिडिम्बायाः पदे पदे । निवेश्य कुन्तीकृष्णाभ्यामभ्यधीयत सा रहः ॥ ३६९॥ भद्रे तवोपकाराणामियतैव न विद्यते । आवां तस्यामवस्थायां किं ते प्रत्युपकुर्वहे ॥ ३७०॥ तथापि ब्रूहि कल्याणि किंचिदीक्षि(प्सि)तमात्मनः । काचिदानृण्यकरणाद्यथा स्यात्प्रीतिरावयोः ॥ ३७१॥ अथोवाच हिडिम्बापि कुन्ती प्रति कृताञ्जलिः । विश्वोपकारिणि काहं क च त्वं पाण्डवप्रसूः ।। ३७२ ॥ किं तवोपकरिष्यन्ति राक्षस्यो देवि मादृशः। उपकुर्वीत किंनाम दरिद्रश्चक्रवर्तिनः ।। ३७३ ।। उपकुर्वन्ति सन्तस्तु पूर्वानुपकृता अपि । किं(के)नाप्युपकृता किंतु(नु) लोकं प्रीणाति चन्द्रिका ॥३७॥ विज्ञापयामि तदपि खंकिंचन मनीषितम् । पुत्रस्ते दृष्टमात्रोऽपि मया वत्रे वृकोदरः ॥ ३७५ ।। तत्प्रसीद तथाघेहि यथा स्यादेष मे वरः। एवं संबन्धमाधाय खस्य मां कुरु किंकरीम् ॥ ३७६ ।। , इत्याख्याते तया कुन्ती सुषाया मुखमैक्षत । सापि विज्ञा कृतज्ञा च जगाद मुदितानना ।। ३७७ ॥ प्राणैरपि प्रियं कर्तुमेतस्याः स्पृहयाम्यहम् । तुच्छानां भर्तृभोगानां संविभागे तु का कथा ॥ ३७८ ॥ ततः खयं समुत्थाय ताभ्यामभ्येत्य चान्तिके । अनिच्छन्नपि भीमस्तां प्रसव परिणायितः ॥ ३७९ ॥ सर्वर्तुरमणीयानि कृतोद्यानानि विद्यया । कृत्रिमं सौधमाधाय रेमे भीमेन सा समम् ॥ ३८० ॥ सैकतेषु सवन्तीनां शैलानां शिखरेषु च । नीत्वा यदृच्छया भीमं रमयामास सा सुखम् ॥ ३८१॥