पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ३०५

इत्याक्षिप्तस्तया मक्षु ययौ सोऽपि भुजंगमः । वाचस्पतेरपि सतीमहिमा नहि गोचरः ।। ३५६ ॥ यदुष्णकिरणः कृष्णां सती पादैरुपस्पृशत् । तन्मन्ये सद्य एवायं मज्जति स तदाम्बुधौ ॥ ३५७ ।। अथाचक्राम दिक्कत्रमुच्छृङ्खलतमं तमः । सर्वातिशायी शोकश्च पाञ्चालदुहितुर्मनः ॥ ३५८ ॥ प्रेयोभिर्विप्रयुक्तायाः कथं यास्यति यामिनी । एषा ममेति सा चिन्ताक्रान्ता यावदजायत ॥ ३५९ ॥ हिडिम्बां पुरतस्तावदालोकत कृताञ्जलिम् । व्यानशे च प्रमोदेन सुधासेकसनामिना ॥ ३६० ॥ फुल्लत्कपोलफलका बभाषे सा हिडिम्बया । आर्ये त्वद्विरहात्मापुः पाण्डवाः शोकताण्डवम् ।। ३६१ ॥ यदान्विष्य वनान्तस्त्वां ते कुत्रापि न लेमिरे । ततो धूलीविलिप्ताजा वसुधा परिरेभिरे ॥ ३६२ ॥ तेषां संप्रति बाष्पाम्बुधाराधरणिभिः पुरः । जातानि जानुदनानि पल्बलानि भुवस्तले ॥ ३६३ ।। श्वापदैरापदं रात्रौ द्रौपदी नेष्यते ध्रुवम् । तां विना जीवितेनापि पर्याप्तमधुनामुना ॥ ३६४ ।। इति निश्चित्य ते सन्ति प्राणत्यागविधित्सवः। जीविते निस्पृहा जज्ञे पृथापि तनयानुगा ।। ३६५॥(युग्मम्) इत्थमत्याहितं तेषां विलोक्याकुलमानसा । कान्तारार्णवमालोब्य तवाभ्यर्णमुपागमम् ॥ ३६६ ।। इति वृत्तान्तमावेद्य समुलुत्य विहायसा। सा द्रौपदीमुपादाय पाण्डवानामुपानयत् ॥ ३६७ ॥ स्रोतखिनीररण्यानीस्ते बहूंश्च शिलोच्चयान् । हेलयैव हिडिम्बायाः साहाय्येन ललविरे ॥ ३६८ ॥