पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

मातुः संवाहयन्पादौ खाने स्थाने युधिष्ठिरः। पन्थानमतिचक्राम प्रत्यहं सह बान्धवैः ॥ ३४४ ॥ एकदा कापि पश्यन्ती कान्ताररमणीयताम् । द्रौपदी द्वीपिनं दृष्ट्वा कान्दिशीकापलायत ॥ ३४५॥ प्रचण्डः पुण्डरीकोऽपि पुण्डरीकविलोचनाम् । तामन्वगच्छदौत्सुक्यात्क्रमः क्रूरात्मनामयम् ।। ३४६ ॥ तदानुपदिके तस्मिन्सभयोत्थितवेपथुः । नितम्बः स्तनभारेण न शशाक पलायितुम् ॥ ३४७ ॥ दंष्ट्राकरालमुत्फालमालोक्य तमुपागतम् । सावतस्थे समालम्ब्य धैर्यमूदमा पुरः ॥ ३४८ ॥ अवापि धर्मपुत्रो मे त्रातेत्यालोच्य तत्पुरः । लीलालतिकया रेखां सा विधायेदमभ्यधात् ॥ ३४९ ॥ यदि मे प्राणनाथेन सत्यरेखा न लविता । तदा त्वमप्य रेखां मा म शार्दूल लङ्घय ॥ ३५० ॥ तथेत्युक्तः स तेष्वेव पदेषु सपदि स्थितः । अहो महानुभावाना प्रभावो दुरतिक्रमः ॥ ३५१ ॥ मुक्ता विधुतुदेनेव द्वीपिना तेन पाप्मना । सितदीधितिलेखेव सा भृशं शुशुभे तदा ॥ ३५२ ।। त्रिभिर्विशेषकम् प्रियोपस्थायिनं मार्गमविदन्ती मनागपि । यूथच्युतकुरङ्गीव शून्यं बनाम सा वने ॥ ३५३ ।। निःशूकं दन्दशूकेन सा व्रजन्ती यदृच्छया । दुष्टेन दुष्टुमारब्धा तमप्येवमवोचत ॥ ३५४ ॥ कायेन मनसा वाचा चेत्पञ्चापि न वञ्चिताः । मया कदापि प्रेयांसः सर्प सर्प तदान्यतः ॥ ३५५ ॥१. निःशूक निर्दयम्.