पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

पृष्ठे वहन्ती कुन्ती च कृष्णां च विनयाश्चिता। अम्बरेण हिडिम्बा च तेषां मध्यस्थिताचलत् ॥ ३३१ ।। अन्यदा तु महाटव्यामत्युत्कटपिपासया । भीष्मग्रीष्मतपत्रान्ता कुन्ती मूर्छामुपाययौ ॥ ३३२ ॥ बीभत्सुरेकतो वेगादन्यतस्तु वृकोदरः। प्रत्याशमतिसंभ्रान्तौ तोयहेतोरधावताम् ॥ ३३३ ॥ मातरं मूच्छितां पश्यन्मत्वैवाम्भोऽतिदुर्लभम् । निजाभ्यामेव नेत्राभ्यामानिन्येऽम्बु युधिष्ठिरः॥ ३३४ ॥ अचिन्तयच्च रे दैव सदैव प्रत्यनीकताम् । सर्वकषां किमस्मासु निर्वाहयसि केवलाम् ॥ ३३५ ॥ दृशा पीयूषवर्षिण्या सिञ्चन्ती या प्रतिक्षणम् । हन्ति नः प्रत्यहं तापं सापि प्रापदिमां दशाम् ॥ ३३६ ॥ प्रियापरिभवो राज्यभ्रंशः पथ(थि)परिश्रमः। नैते तथा व्यथन्ते मां यथा मातुरियं दशा ॥ ३३७ ॥ इति चिन्तातुरे राज्ञि काप्यप्राप्य पयस्तदा । आजग्मतुनिरानन्दौ घृकोदरकिरीटिनौ ॥ ३३८ ॥ एतावपि महाबाहू विह्वलावुपरि स्थितौ । कदुष्णैर्नयनाम्भोमिर्जननी पर्यषिञ्चताम् ॥ ३३९ ॥ निराशमनसां तेषां क्षिपन्ती दिक्षु चक्षुषी । आनीयोपानयन्नीरं हिडिम्बा बिसिनीदले ॥ ३४०॥ तेषां नयनपात्रेभ्यो निझरेभ्य इवाधिकम् । बाष्पैस्तथैव निर्यातमानन्दशिशिरैः परम् ॥ ३४१॥ शस्यानामिव शुष्काणां शोकचिन्तातपःक्लमात् । आपुरापस्तदा तेषां ताः खात्यम्बुविडम्बनम् ॥ ३४२ ॥ अस्मात्कुटुम्बजीवातुर्मातुरातुरघातिनी । निजेति तेषां चेतःसु हिडिम्बा प्रतिबिम्बिता ॥ ३४३ ॥