पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

तदस्तु फाल्गुनः शत्रोः करिष्ये फल्गु वल्गितम् । इति व्याहत्य संहर्तुं स रिपुं प्रत्यधावत ॥ ३१८ ॥ अथाहवं महाबाहोर्बाहूबाहवि कुर्वतोः । तयोर्जयश्रीर्दोलेव करोति स्म गतागम् ॥ ३१९ ॥ पाण्डवश्व हिडम्बश्च वल्गन्तौ क्षोणिरेणुभिः । तमांसि मांसलीभावं लम्भयामासतुस्तदा ॥ ३२० ॥ दृष्ट्वा हिडम्बदोर्दण्डचण्डिमानं युधिष्ठिरः। अभीमं जगदद्येति विदन्नर्जुनमभ्यधात् ॥ ३२१ ॥ त्वर्यतां त्वर्यतां वत्स गच्छ क्षपय राक्षसम् । दोर्दण्डाभ्यां हिडम्बेन पीड्यतेऽसौ तवाग्रजः ॥ ३२२ ॥ जल्पत्येवं तपःसुनौ भीमस्तं राक्षसं क्षणात् । ग्रीवायां बाहुपाशेन पशुमारममारयत् ॥ ३२३ ॥ कुन्ती सुतस्य सानन्दमुदतारयदञ्चलम् । प्रातुर्वपुरजातारिः सरजस्कममार्जयत् ॥ ३२४ ॥ अर्जुनाद्याः कनीयांसस्तस्य चेलाञ्चलानिलैः । रणखेदभवखेदच्छेदमातेनिरेतराम् ॥ ३२५ ॥ क्षणादेकान्तमासाद्य भीम रोमाञ्चशालिनी । स्तनोपपीडमालिङ्गदानन्दादुपदात्मजा ॥ ३२६ ॥ कंदर्पण हिडिम्बायास्तदा बन्धुवियोगजः । शोकः शोकापनोदेन गुरुणा विरलीकृतः ॥ ३२७ ॥ शुश्रूषाबहुमानाभ्यां निबिडाभ्यां हिडिम्बया। कुन्तीद्रुपदनन्दिन्योर्मनःपरवशीकृतम् ॥ ३२८ ॥ अथो निशीथिनीशेषे पन्थानं ते प्रपेदिरे । प्रमाद्येत्कः सविद्यो हि महीयसि विरोधिनि ॥ ३२९ ।। आश्वासयन्कनीयांसौ तेषां पृष्ठंगमोऽर्जुनः । निजाग्रजन्मनो दत्तबाहुभीमः पुरोगमः ॥ ३३० ॥