पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ३०३

उच्छलसिंहनादेन रक्षसा प्रहतो हदि । धाव्यतां देवि पुत्रस्ते हहा पतति मूञ्छितः ॥ ३०५ ॥ इत्युक्ते धर्मपुत्राद्या भीमाभ्यर्णमुपाययुः । तं च मूर्छालमालोक्य जननी पर्यदेवत ॥ ३०६ ॥ अस्माकं मार्गपशूनां वोढा त्वं प्रौढविक्रमः । दुष्टेन रक्षसा वत्स गमितः कामिमां दशाम् ॥ ३०७ ॥ निरालम्बकुटुम्बस्य करालम्बं त्वया विना । दूरात्पानीयमानीय तृष नः कोऽपनेण्यति ॥ ३०८॥ कुसुमानि समानीय बन्यान्येतां तपखिनीम् । नव्यधम्मिल्लबन्धेन वधू कोऽलंकरिष्यति ॥ ३०९ ।। तदहाय समुत्थाय देहि प्रतिवचो मम । नयास्मान्पुरतोऽध्वानं पुरोऽभ्येति रिपोश्चमूः ।। ३१० ॥ इत्थं विलापवैधुर्यधुर्यचेतसि मातरि । अञ्चलव्यजनैश्चक्रे भीमं प्रगुणमर्जुनः ॥ ३११ ।। अथोत्थाय नियुद्धाय स्पृहयालरीकोदरः। प्रति प्रत्यर्थिन धावन्वभाषे ज्येष्ठबन्धुना ॥ ३१२ ।। स्थिरो भव तव प्राता भुजभ्राजिष्णुरर्जुनः । अस्त्येव वत्स तच्छत्रौ दुष्टे कष्टायसे कथम् ॥ ३१३ ॥ इत्युक्तः सोऽवदद्देव मम संप्रति दोर्बलम् । तव दृष्टया सुधावृष्टया सिक्तं पल्लवितं पुनः ॥ ३१४॥ तवानुजस्य पुरतः कोऽयं राक्षसपांसनः । पुरो हि पूष्णः पुष्णन्ति भचयं ध्वान्तवीचयः ।। ३१५ ॥ वीक्ष्यमाणस्य देवस्य प्रसन्नाक्षस्य राक्षसम् । एनं नयामि पञ्चत्वं पञ्चानन इव द्विपम् ॥ ३१६ ॥ अमानुषप्रचारेऽस्मिन्कानने निरुपद्रवः । प्रसादेन तवेदानीमस्तु पन्थाः सुसंचरः ।। ३१७ ॥