पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०२ काव्यमाला।

आः पापे प्रौढकंदर्पाकुले कुलकलङ्किनि । बुभुक्षितमुपेक्ष्यैवं मामभूरिह कामुकी ॥ २९२ ॥ त्वां विधायेन्धनं पूर्वं जाठरस्थाशुशुक्षणेः। ततोऽमूनाहुतीभावं लम्भयिष्यामि मानवान् ॥ २९३ ॥ एवमाक्षिप्य कोपेन रक्तचक्षुः स राक्षसः । दूराच्चपेटामुत्पाद्य दधावे सोदरां प्रति ॥ २९४ ॥ ततस्तमाह माहात्म्यभूमिर्भीमः ससौष्ठवम् । निरागसं निजां जामिमरे मोघं जिघांससि ।। २९५ ।। रक्षोवंशानुरूपं ते यद्भगिन्यपि हन्यते । उपेक्षितुं क्षमे साक्षान्न स्त्रीहत्यामहं पुनः ॥ २९६ ॥ उत्तिष्ठ निष्ठुरं कर्म मुञ्चेदं किंचिदायुधम् । करे कुरु कुरुश्रेष्ठा नहि घ्नन्ति निरायुधम् ॥ २९७ ॥ इति क्रोधादधिक्षिप्तस्तामत्याक्षीत्स राक्षसः । एकं पादपमुद्यम्य भीमं च प्रत्यधावत ॥ २९८ ।। भीमोऽपि गतभीरेकं विधायायुधमङ्घ्रिपम् । जाग्रतु भ्रातरो मेति तूष्णीको युद्धमादधे ॥ २९९॥ चण्डौजसा हिडम्बेन निर्विलम्ब बलीयसा । प्रहतः प्रसभं भीमः क्षणाक्षेण वक्षसि ॥ ३०० ॥ पाण्डवोऽपि हिडम्बाय ददौ पीडा प्रहारतः । यथा तत्प्रसमं निन्ये सोऽपि मूर्छारसज्ञताम् ॥ ३०१ ॥ मूर्छाविरामे स क्ष्वेडामब्रीडां क्रीडयाकरोत् । यया युधिष्ठिरादीनामभून्निद्रादरिद्रता ॥ ३०२ ॥ कुन्ती पुरस्तादुद्वीक्ष्य हिडिम्बामिदमभ्यधात् । का त्वं पुत्रि कथं चात्र तथ्यं मे कथ्यतामदः ।। ३०३ ।। साप्यस्यै निजमावेद्य सर्व वृत्तान्तमादितः । आख्याति स तनूजस्ते युध्यते रक्षसा सह ॥ ३०४ ॥