पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

सुगात्रि परमत्रार्थे कारणं मे निशम्यताम् । ममैते बान्धवाः सन्ति चत्वारोऽपि शयालवः ॥ २७९ ॥ रि(ऋ)द्धा गुणैरियं वृद्धा या तु स्वपिति निर्भरम् । जानीहि जननीमेनामस्माकं स्मेरलोचने ॥ २८०॥ एषा शिरीषमृद्वङ्गी सुखं सोसु(षु)प्यते तु या । पञ्चानामपि सास्माकं प्राणेभ्योऽपि प्रिया प्रिया ।। २८१ ।। एकयापि सर्मिण्या साधारिण्यानया वयम् । कृतार्थाः पुरुषार्थेषु निखिलेष्वपि निर्मिताः ॥ २८२ ॥ अनुमन्यामहे नान्यां प्रेयसी श्रेयसीमपि । प्राप्य कल्पलतां स्वल्पाः कोऽनुरुध्येत वीरुधः ॥ २८३ ॥ उपन्यस्तस्त्वया यस्तु लोमः सहायकं प्रति । सोऽपि शौण्डीर्यचण्डानां दोर्दण्डानां त्रपाकरः ॥२८॥ बाबसाहाय्यसापेक्षं क्षणं वा मास भून्मनः । इत्यस्मासु स्वदोवीर्यनिष्ठं ज्येष्ठस्य शासनम् ।। २८५ ॥ इति सा प्रतिषिद्धापि सदैन्यं पुनरभ्यधात् । मामात्मशरणां स्वामिन् यद्यपीत्थमपाकृथाः ।। २८६ ॥ यावज्जीवं त्वमेवासि जीवितेशस्तथापि मे । तद्यदारोचते नाथ कुरु मामात्मसात्तदा ।। २८७ ।। किंत्वेतामधुना तावद्विद्यामादत्स्व चाक्षुषीम् । यया ते भविता द्योतस्तामसीष्वपि रात्रिषु ॥ २८८ ॥ सैवमाख्याय भीमाय संमदातामदात्तदा । तस्मै पठितमात्रैव सा प्रकाशमसूत्रयत् ॥ २८९ ॥ अत्रान्तरे ददत्रासमट्टहासेन भीषणः। आजगाम हिडम्बोऽपि प्रेतनाथं विडम्बयन् ॥ २९॥ वेपथुस्वेदरोमाञ्चैर्यामिमागम्य कामुकीम् । प्रसभं सोऽभ्यधादेनां भ्रकुटीविकटाननः ॥ २९१ ॥