पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

कथंचिद्दैवदुर्योगादेतस्यां बनसीमनि । नरः शूरोऽपि यद्येति रक्षसानेन भक्ष्यते ॥ २६६ ।। अस्य चाहमहंकारमन्दिरस्य सहोदरा । अनूढास्मि हिडिम्बेति बन्धुगेहनिवासिनी ॥ २६७ ।। ममाप्यस्ति क्रमायाता विद्या सर्वापि राक्षसी । इदानीं तु स्थितः सौधे बन्धुर्मामभ्यधादिदम् ॥ २६८ ॥ अधुना मानुषो गन्धः क्षुधं मे बोधयन्नयम् । प्रियंभविष्णुर्घ्राणस्य कुतोऽप्येति सहोदरे ॥ २६९ ॥ तन्मानवानवेक्ष्यैतान्कुतोऽप्यानय सत्वरम् । येनेयं चिररात्राय शममभ्येति मत्क्षुधा ।। २७० ॥ तदहं दहनज्वालालोले कृत्वा विलोचने । विधित्सुर्बान्धवादेशं देशमेनमुपागमम् ॥ २७१ ॥ वने मानवसंघातमेनं निःसहविग्रहम् । निद्रायमाणमद्राक्षं बुभुक्षोपशमक्षमम् ॥ २७२ ॥ विलोक्य त्वां च कन्दर्परूपदर्पापहं पुरः। विस्मृत्य भ्रातुरादेशं स्मरादेशे स्थितास्म्यहम् ॥ २७३ ॥ यज्जातोऽसि महाबाहो मम नेत्रसुधाञ्जनम् । असौ रूपपरावर्तः प्रावर्तत जवात्ततः ॥ २७४ ॥ तदाधेहि प्रसादं मे पाणिपीडनकर्मणि । सत्योपयाचिताः सन्तु सकलाः कुलदेवताः ॥ २७५ ॥ तस्मान्मा स्म बिलम्बस्व पुनरन्वेति राक्षसः । त्रपां विहाय मां रात्रिचरीं सहचरीं कुरु ॥२७६ ॥ मयि (त्वित् )सहचारिण्यामसौ दूरेऽस्तु राक्षसः । नान्येऽपि प्रभविष्यन्ति प्रबला वनवैरिणः ॥ २७७ ।। अथाभाषिष्ट भीमस्तां भद्रे प्रेमामभ्यधाः । पुण्यप्रागल्भ्यतो लभ्या त्वादृग्न री स्वयंवरा ॥ २७८ ॥