पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

दृष्टौ कष्टेन यस्याङ्घ्री सेवायातैर्नृपैरपि । नरव्याघ्रस्य जिघ्रन्ति शृगालास्तस्य सांप्रतम् ॥ २५३ ।। पूर्वं व्योम्नि विमानेन यो विभ्राम सविभ्रमम् । रङ्कस्वापं स्वपित्येवं कान्तारे सोऽयमर्जुनः ॥ २५ ॥ द्विषद्यशस्तुषारांशुराहवो यस्य बाहवः । सहते सोदरादेशात्क्लेशं सोऽपि कपिध्वजः ॥ २५५ ॥ एतौ सदापि नः क्रोडक्रीडादुर्ललितौ पुरा । हा शयाते कनीयांसौ दरिद्रपथिकाविव ॥ २५६ ॥ पाण्डवानामियं माता पत्नी पाण्डुमहीपतेः । क्रमचंक्रमणक्लान्ता शेते कुन्ती हहा भुवि ॥ २५७ ॥ कथं सहिष्यते क्लेशं ना(सा)सौ यस्यास्तनूरुहाः । वयं प्रोद्दामशौण्डीर्यप्रपञ्चाः पञ्च पाण्डवाः ॥ २५८ ॥ इयं निद्रायते भूमौ कष्टं द्रुपदनन्दिनी । एतामवस्थामेतस्याः पश्यन्भीमोऽपि जीवति ॥ २५९ ॥ अरण्यपान्थैरस्माभिः पश्यत प्रेयसी निजा । असौ कान्तारसंचारशिक्षामध्याप्यते हहा ॥ २६० ।। इत्युच्चैविलपन्भीमो भीषणाकारधारिणीम् । एका युवतिमायान्तीं पिकलाक्षीमुदैक्षत ।। २६१ ॥ भीमस्याभ्यर्णमभ्यागाद्युवतिः सा यथा यथा । रूपं प्रकाशयामास मनोहारि तथा तथा ॥ २६२ ॥ भीमः समीपमायातां तामुवाच सुलोचने । कासि भीष्मं च सौम्यं च रूपमप्यकृथाः कथम् ॥ २६३ ।। बभाषे सापि सुश्रोणिः सुभग श्रूयतां त्वया । अस्ति दत्तजगड्डिम्बो हिडम्बो नाम राक्षसः ॥ २६४ ॥ इदमस्याख्यया ख्यातं हिडम्बवनमुत्कटम् । , नास्मिन्मनुष्यजातीयः कश्चित्संचरते यथा ॥ २६५ ॥