पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९८ काव्यमाला।

क्रमेण वारुणीशैलशिरःस्रस्तकरे रवौ । वनमेकमनेकद्रु प्रापुस्ते निरुपद्रवाः ॥२०॥ भूरपि त्रासकृद्यत्र रौद्राकारा द्रुमा अपि । मार्गोऽपि कीकसैर्दुर्गः क्रूरा दूरं मृगा अपि ॥ २४१ ॥ तत्र प्रविष्टमात्राणां तेषामस्तं रविर्ययौ । क्रुद्धो विधिरुपाधत्ते विपदो हि पदे पदे ॥ २४२ ॥ साम्राज्यं पुनरुज्जृम्भि विभाव्य तमसां तदा । आरोहमवरोहं च विपदा(दो)न्तेऽपि जज्ञिरे ॥ २४३ ॥ भीषणेऽपि वने तत्र ध्वान्तेनान्धंभविष्णवः । ते विश्रान्तिजुषस्तस्थुर्निशाविश्रामकाम्यया ॥ २४४ ॥ कङ्केलिपादपस्याधस्ते ध्यातपरमेष्ठिनः । पल्लवैर्भीमविन्यस्तान्त्रस्तरान्य(न)ध्यशेरत ॥ २१५॥ आपृच्छच बन्धून्वात्सल्यादुत्सहिष्णुमनास्ततः । जगाम जलमानेतुं मध्यमः पाण्डुनन्दनः ।। २४६ ॥ गव्यूतिमात्रमध्वानमतिक्रम्य स विक्रमी । सारसस्वरनिर्णीतमाससाद पुरः सरः ।। २४७ ।। उपेयिवानुपादाय पयःपुटकिनीपुटे । अक्षामनिद्रमद्राक्षीत्स्वकुटुम्बं वृकोदरः ।। २४८ ॥ तत्तथाभूतमालोक्य शोकेन विवशीकृतः । विललाप विमुच्यापः स बाष्पाविललोचनः ॥ २४९ ॥ पत्यकं यः सतूलीकमध्युवास नृवासवः । धिग्विधे सोऽधुनाध्यास्ते स्थपुटं स्रस्तरं भुवि ॥ २५० ।। पुरोपतल्पं यस्यासीन्निःसीमो गीतनिस्वनः । वर्तते सांप्रतं तस्य भैरवः फैरवो रवः ॥ २५१ ॥ कस्तूरीसंस्तुतैः पूर्वं यस्याभूच्चन्दनद्रवैः । अङ्गे तस्याङ्गरागोऽयं पांशुभिर्मार्गसंभवैः ।। २५२ ॥