पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

भीमवक्षःस्थले स्थूलंभावुकक्षुत्क्लमोदयः । खननोपक्रमं चक्रे नखकुद्दालकैर्वकः ॥ ५३८ ।। त्रुटत्कारकरास्तस्य नखरास्ते खरा अपि । मृणालकदलीभञ्जं भज्यन्ते स्म समन्ततः ॥ ५३९ ।। विस्मितश्च विलक्षश्च लज्जितः सज्जितश्च सः । रक्षोनिवहमाह्वास्त समस्तं स्वस्य संनिधौ ।। ५४० ।। ऊचे च नरमेकैकं स्वादयन्नहमन्वहम् । अस्मिन्भूभृति भूयांसमनेहसमलङ्घयम् ॥ ५४१ ॥ परं न कोऽप्यभूदीदृ‌क्पुरुषः परुषच्छविः । न च स्थिरो न च स्थूलवपुर्नाप्यकुतोभयः ॥ ५४२ ।। तदेनं स्वे नगे नीत्वा तीक्ष्णेन तरवारिणा । उत्कृत्योत्कृत्य कर्तास्मि सर्वेषामाशितंभवम् ।। ५४३ ॥ तदवश्यमुदस्यध्वमेनं मानुषमादरात् । इत्युक्तास्ते तथा चक्रुरुद्दामबलशालिनः ॥ ५४४ ॥ भीमभारभराक्रान्ता मुखेनोद्वान्तशोणिताः। नक्तंचराः पिशाचास्ते निपेतुर्धरणीतले ।। ५४५ ॥ अथ संभूय भूयोभिस्तैः समं बकराक्षसः। भीमं कथंचिदुत्पाट्य निनाय निजभूधरम् ॥ ५४६ ॥ इतः साकं कुटुम्बेन विलापविकलात्मना । प्रणम्य सर्वदेवेभ्यो देवशर्मा गृहे गतः ।। ५४७ ॥ दूरादधिगृहद्वारमदृष्ट्वा शकटं बलेः । स द्विजो द्विजवाचालं जङ्घालः काननं ययौ ॥५४८॥ (युग्मम्) तत्रालोक्य गदां पादसमर्दं च शिलान्तिके । स प्रत्यासन्नमासन्नमूर्छः पप्रच्छ देवलम् ॥ ५४९ ॥ ब्रूहि बन्धो प्रवन्धोऽयमधुना कीदृशोऽभवत् । वनमायातपूर्वी च लक्ष्यते राक्षसो यतः ।। ५५० ॥