पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

न जानाति प्रिया दुःखमेकस्मिन्नपि भर्तरि । पञ्चस्वपि प्रियेष्वेका क्लिश्यते द्रुपदात्मजा ॥ २१५ ॥ इत्यस्मिंश्चिन्तयत्येवं मार्गे दुर्गे तमोभरैः । श्रान्ता कुन्ती च कृष्णा च निःसहं भुवि पेततुः ॥ २१६ (चतुर्भिः राज्यभ्रंशो भयं शत्रो रात्रौ पन्यां पलायनम् । धिग्विधे योऽभ्यधादेवं पाण्डवानां विडम्बनम् ॥ २१७ । उष्णालभिरपच्छत्रैः शीतालभिरनङ्कुशैः। बुभुक्षुमिरपाथेयैः पन्थानो दुरतिक्रमाः ॥ २१८ ॥ शिरीषसुकुमाराङ्ग्यौ निपतन्त्यौ पदे पदे । दुर्गकान्तारपारीणे कथमेते भविष्यतः ॥ २१९ ॥ इति खेदपरं दृष्ट्वा नृपमूचे वृकोदरः । आकुलो मास्मभूद्देव पदातौ प्रगुणे मयि ।। २२० ॥ (चतुर्भिः ततोऽम्बां दक्षिणे स्कन्धे वामे प्रियतमां पुनः । अध्यारोप्य ययौ भीमो भञ्जन्मार्गमहीरुहः ॥ २२१ ॥ उभावपि कनीयांसौ पश्चाद्दूरान्तरस्थितौ । मार्गखेदोच्छलच्छ्वासौ मन्दं मन्दमुपेयतुः ।। २२२ ॥ व्यवस्थाप्य त्रिकस्थाने तावुभावभितस्तदा । निन्ये भीमो भुजालम्बाद्धर्मपुत्रार्जुनावपि ।। २२३ ॥ निशीथमारुतः शीतः कुमुदामोदमेदुरः । आचचाम श्रमं तस्य दयालुरिव दूरतः ॥ २२४ ॥ न निद्रोपद्रवस्तस्य वैधुर्यं नान्धकारजम् । ललचे पथ(थि)पाथोधिं पूर्ववत्पवनात्मजः ॥ २२५ ॥ विलोक्य क्लान्तिमायातौ धर्मपुत्रार्जुनावपि । महेभ इव भीमस्तान्सर्वान्पृष्ठेऽध्यरोपयत् ॥ २२६ ॥