पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २०५

आपन्नार्तिच्छिदाछेकदोर्दण्डाः पाण्डवा इमे । एतान्हन्त दहन्नेवं पुरोचन किमाचरः ।। २०२ ॥ दीनानाथसमुद्धारपण्डिताः पाण्डवा इमे । एतांस्ते निघ्नतः कीदृक्सुयोधन धनार्जनम् ॥ २०३ ॥ त्रैलोक्यत्राणशौण्डीरकोदण्डाः पाण्डवा इमे । अमूनेवं तिरस्कुर्वन्वैधेयोऽसि विधे ध्रुवम् ॥ २०४ ॥ परिदेवितवाक्यानि लोकानामित्यनेकशः । कर्णावतंसीकुर्वन्तः पुरतस्ते प्रतस्थिरे ॥ २०५ ॥ (पञ्चभिः कुलकम्) भाग्यराशिरिवामीपामालोकः स तिरोदधे । बन्धुदुर्योधनस्येव प्रादुरास तमश्चयः ॥ २०६ ॥ युगपद्ध्वान्तमध्वा च द्वयमेतदुपागतम् । तनोति स्म श्रमाहानं तत्सवित्रीकलत्रयोः ।। २०७॥ आलोकशब्दमाधत्तः पुरो भीमकिरीटिनौ राज्ञः प्रथमपान्थस्य तथाप्यस्खलतां क्रमौ ॥ २०८ ।। नकुलः सहदेवश्च पथि श्रान्तावुभावपि । ज्यायसां मा म खेदोऽभूदिति तूष्णीमगच्छताम् ।। २०९ ॥ पादचार सदाचारभूमीरुहभुवोरपि । मातुः पत्न्याश्च निध्यायन्दध्यौ विश्वभराधिपः ॥ २१० ॥ यस्यां कथंचिन्नापैति सुतानामधमर्णता । मयाद्य निष्क्रयो मातुस्तस्याः क्लेशोऽयमर्प्यते ॥ २११ ॥ कष्टं दृष्टं यया नैव पितुर्भ्रातुश्च वेश्मनि । मातेयममितं क्लेशं मयैनमनुभाव्यते ॥ २१२ ॥ अहो पाणिगृहीतीयं पाण्डवानां महौजसाम् । दरिद्रगृहिणीचारं चरत्येव वनावनौ ॥ २१३ ।। पश्यतां पाण्डुपुत्राणां कलत्रस्य कुशाङ्कुरैः । अम्भोजमेदं भिद्येते हहा चरणपल्लवौ ॥ २१ ॥