पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९४. काव्यमाला।

मधुरस्निग्धमाहारं तां वृद्धां मृदुमानसा । सात्मजां भोजयामास कुन्तीदेवी सगौरवम् ॥ १८९ ॥ आमृशद्भिर्मुहुस्तुन्दं सुतैः सौहित्यशालिभिः । साधं वृद्धाध्वना खिन्ना तत्रैवाशेत निःसहा ।। १९० ।। दुनिमित्तैस्तमी भीमस्तां संभाव्य भयंकरीम् । सकुटुम्ब सुरङ्गायां युधिष्ठिरमतिष्ठिपत् ॥ १९१ ।। निर्विलम्ब कुटुम्बेन समं जग्मुषि बान्धवे । भीमसेनः स्वयं तस्थौ द्वारि संचारिलोचनः ॥ १९२ ।। द्वारतो दीपयन्नुच्चैरर्चिष्मन्तं पुरोचनः । उन्निद्रमनसा तेन दुष्टो दृष्टः स चक्षुषा ॥ १९३ ॥ धूमधूंमध्वजो यावन्नालिङ्गति नभोऽङ्गणम् । तस्य क्रोधानलस्तावज्ज्वालाजालममुञ्चत ॥ १९४ ।। ततः पुरोचनं धृत्वा तं केशेषु विसंष्ठुलम् । आचकर्ष हठेनासौ हरिणं हरिणारिवत् ॥ १९५ ॥ तं नीत्वा मुष्टिना मृत्युं स दम्भोलिसनामिना । प्रदीप्य जातुषागारं चकार द्रुतमग्मिसात् ।। १९६ ॥ सोत्कण्ठमानसो वाततनयोऽपि सुरङ्गया । एत्य संघट्टितः पश्चाज्झटित्येवाग्रजन्मना ॥ १९७ ॥ अचिरेणैव पुंनागा नागलोकोपमाद्बिलात् । विनिर्याय प्रयान्ति स्म पथि ते रथवर्जिताः ॥ १९८ ।। तेषां प्रदीपनोयोतः पृष्ठतस्तीव्रवेगतः । दिष्ट्या पुरोचनो दग्ध इत्याख्यातुमिवाययौ ॥ १९९ ।। अस्तं नीत्वा तमःस्तोमं दीपालोकेन दर्शितः । हस्तदीपोपमेनैषामध्वा सौध इव ध्रुवम् ॥ २०० ॥ संपत्पुटकिनीखण्डमार्तण्डाः पाण्डवा इमे । त्वमेतान्किं मुधाधाक्षी रे हताश हुताशन ॥ २०१ ॥१. 'स्वचक्षुपा' इत्युचित प्रतिभा ति.