पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २९३

इत्याख्याय समाहूय नृपाय तमदर्शयत् । ननाम सोऽपि भूपालं भूतलन्यस्तमस्तकः ॥ १७६ ॥ भद्र रुद्रां सुरङ्गां नः खैरं चारमनोहराम् । कुरुग्वेति पतिभूमेः सप्रसादं समादिशत् ॥ १७७ ।। पुरवाह्यगृहस्यान्तः स्थित्वा सोऽपि प्रतिक्षपम् । दिवान्यकर्म कुर्वाणः खनति स्म शनैः शनैः ।। १७८ ।। अधस्ताद्भीमतल्पस्य विलद्वारं विधाय सः । निजव्यापारपारीणं खं नृपाय न्यवेदयत् ॥ १७९ ॥ अविश्वासाः सविश्वास निर्मदः समुदं तदा । लोकेभ्यो दर्शयामासुरात्मानं तेऽपि पाण्डवाः ।। १८० ।। प्रतिप्रत्यूषमुत्थाय जात्यमारुह्य वाजिनम् । चतुर्दिशं पथः सर्वान्विदामास वृकोदरः॥ १८१ ॥ कुन्त्याश्च याज्ञसेन्याश्च यमयोश्च कनीयसः । अभ्यासार्थ पृथासूनुः सुरङ्गान्तरदर्शयत् ॥ १८२ ॥ पश्चापि चन्द्रशालायां निषण्णास्ते नभोगतैः । नक्षत्रैः क्षत्रमार्तण्डा निशि निश्चिक्यिरे पथः ॥ १८३ ॥ कुन्ती शुभाय पुत्राणामाहारैः सुमनोहरैः । दीनानाथजनं सर्व प्रीणयामास सर्वतः ॥ १८ ॥ अर्चामभ्यर्चयामास श्रीशान्तेः शान्तकल्मषाम् । परमेष्ठिमयं मन्त्रं ध्वस्तपापं जजाप च ॥ १८५॥ विश्वस्त बन्धुमिः सार्ध दृष्टा हृष्टं युधिष्ठिरम् । पूर्णामेव निजां मेने रुचिं पापः पुरोचनः ॥ १८६ ।। अथ कृष्णचतुर्दश्यां कस्यांचित्पञ्चभिः सुतैः । स्नुषया चैकया साकं वृद्धा काचिदुपाययौ ॥ १८७ ।। पञ्चपुत्रपवित्रां च वृद्धामालोक्य तां पृथा। आत्मतुल्यतया मेने भगिनीमिव सोदराम् ॥ १८८ ॥