पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९२ काव्यमाला।

बन्धुभ्यामुद्धतं धीरमुदीरितमिदं वचः । निशम्य सम्यगालोच्य मनसावोचदग्रजः॥१६३॥ वत्सौ यत्सौ(शौ)र्यधुर्याणामाकल्पं तदजल्पताम् । दुर्योधनवधे किंतु सत्यं स्यान्मे मलीमसम् ॥ १६४ ॥ गच्छन्तोऽपि पथि च्छन्नमुच्छन्नानीकसौष्ठवाः । निर्लज्जेन वयं तेन लक्ष्येमहि पदे पदे ।। १६५॥ वशीकृतदिगन्तस्य तस्यानन्तबलौजसः । क्यमेकाकिनः पान्थाः स्थाने स्थाने न दुम्रहाः ॥ १६६ ॥ न च विद्याबलेनापि गन्तुं संप्रति युज्यते । सत्यस्य निकषो सेवं न मे प्रादुर्भवेद्धृशम् ।। १६७ ।। श्रूयतां तु ममाकूतमवधाय मनोऽधुना । अतिगुप्तेङ्गिताकारैरास्यतेऽत्रैव वेश्मनि ।। १६८ ॥ यदा खामिनिदेशार्थमुत्सहेत पुरोचनः । तदास्माभिरितो गेहान्निर्गन्तव्यं सुरङ्गया ॥ १६९ ॥ ततश्च दग्धान्विज्ञाय कोऽप्यन्विष्यति नैव नः । तदैवमेकमस्माकं श्रेयः स्यादपरं त्विदम् ॥ १७०॥ पाण्डवेयाः प्रचण्डेन ज्वालाजटिलमूर्तिना । सुखं मम प्रपञ्चेन दन्दह्यन्ते स्म बहिना ॥ १७१ ।। मुदं मेदखिनीमेतां हृदि धत्ते सुयोधनः। गमयामः सुखेनेत्थं वयं द्वादशवत्सरीम् ।। १७२ ॥ (युग्मन निर्गमोऽस्तु सुरक्षायाः प्राच्या द्वैतवनाध्वना । संप्रत्यालोक्य तां कोऽपि सुरङ्गाखनकः पुनः ॥ १७३ ।। इत्युक्तो धर्मपुत्रेण भूयोऽवादीप्रियंवदः। प्रहितो विदुरेणास्ति खनकः शुनकाभिधः ॥ १७४ ॥ अयं तव पितृव्यस्य बहिर्मन इव स्थितम् । विश्रम्भस्य परा भूमिरात्मेव वपुरन्तरे ॥ १७५ ॥ won