पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २९१

देव त्वां विदुरः प्राह यदिहोपेयुषा मया । धृतराष्ट्रान्तिकस्थेन रहो दुर्योधनः स्थितः ॥ १५० ॥ कर्णदुःशासनादीनां मन्त्रेण विगतत्रपः । पुरोचनं ब्रुवन्नेव निगूढं शुश्रुवे खयम् ।। १५१ ॥ (युग्मम्) परिच्छदबहुत्वेन निजत्वन निरन्तरम् । मह्यं त्वदपरः कश्चित्पुरोचन न रोचते ॥ १५२ ॥ भद्र त्वमपि जानासि पाण्डवान्मम वैरिणः । जीवत्सु तेषु राज्य मे गन्धर्वनगरायते ॥ १५३ ।। वढेरुद्दीपनैव्यैः सणसर्जरसादिभिः । आचितं जातुष सौधं विदध्या वारणावते ॥ १५ ॥ सकुटुम्बमवस्थाप्य विनयात्तत्र कृत्रिमात् । कुर्यास्तं धर्मजं कृष्णचतुर्दश्यां कृशानुसात् ॥ १५५ ॥ सा परं न परिज्ञाता कापि कृष्णा चतुर्दशी। ततोऽवधानमाधेयं प्रतिकृष्णचतुर्दशि ॥ १५६ ॥ इत्याख्यायि मया तुभ्यमिदं विदुरवाचिकम् । प्रमादितां तदत्रार्थे पृथिवीनाथ मा कृथाः ॥ १५७ ।। तस्वाकर्ण्य विषाकीणों गिरमेतां युधिष्ठिरः। सक्रोधैर्बन्धुभिः सार्ध परीक्षामास तद्गृहम् ॥ १५८ ॥ असौ सद्ममयं छद्म तन्निर्णीय गुणार्णवः । मातृभ्रातृकलत्राणां प्रत्येक मन्त्रमग्रहीत् ॥ १५९ ॥ पूर्व भीमोऽभ्यधादार्य विदार्य हृदयं रिपोः । आदिश द्रुतमभ्येमि किमद्यापि बिलम्बसे ॥ १६० ।। अर्जुनोऽप्यब्रवीदार्य मम लघ्वार्यदर्शितः । पक्षोऽयमुचितो भाति गूढं वा गम्यतेऽग्रतः ॥ १६१ ॥ प्रकाशमिव वा खैर व्योमयात्रैव सून्यते । तब श्रक्षेपसापेक्षा विमानानां यतः श्रियः ॥ १६२ ।।