पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

तद्वास्तव्यः समस्तोऽपि जनः प्रीतितरङ्गितः । मङ्गल्योपायनस्तस्य संमुखीनः समागमत् ॥ १३७ ॥ फुल्लवक्रारविन्देन गोविन्देन समं पुरम् । प्रविवेश विशामीशः खःपतिः खःपुरे यथा ॥ १३८ ॥ स तत्र चित्रशालाभिर्विशालाभिरलंकृतम् । सौधमद्भुतमध्यास्त मध्यास्तविविधासनम् ॥ १३९ ॥ उपचर्याशतैस्तैस्तैरजस्त्रं धर्मजन्मने । आत्मानं रोचयांचक्रे चातुर्येण पुरोचनः ॥ १४० ॥ अतिस्तुतिपदं वस्तु समस्तं हस्तिनापुरात् । तेषां दुर्योधनो नित्यमुपदीकुरुते तदा ॥ १४१ ॥ तथा पृथ्वीभुजा सर्वः सममाजग्मिवाञ्जनः । प्रसादितो यथा जातु न ससार निजं गृहम् ॥ १४२ ।। सवित्री पाण्डुपुत्राणां दानकरुचिमानसा । पाणिं व्यापारयामास दीनोद्धरणकर्मणि ॥ १४३ ॥ प्रियेषु सानुरागेषु मनीषितविधायिषु । नोदकण्ठत पाञ्चाली कदाचिन्नृपतिश्रिये ॥ १४४ ॥ इत्थं कुटुम्बसौस्थ्येन सुयोधनगिरापि च । अभूत्तत्रैव वासाय स्थिरचेता युधिष्ठिरः॥ १४५॥ हस्तिनापुरसाम्राज्यसपिण्डां पाण्डवश्रियम् । दृष्ट्वा हृष्टो विसृष्टस्तैर्जगाम द्वारकां हरिः ॥ १४६ ।। मातुरुत्कण्ठिता सार्धमात्मजेनाभिमन्युना। सुभद्रा सह कृष्णेन प्रहिता पाण्डुसूनुना ॥ १४७ ॥ तानथो सुस्थितमन्यः पौरानप्यश्रुवर्षिणः । कथंचिदपि संबोध्य हास्तिनं प्राहिणोन्नृपः ॥ १४८ ॥ अन्यदा द्रुतमभ्येत्य विदुरप्रहितो रहः । अन्वितं भीमपार्थाभ्यां तं जगाद प्रियंवदः ॥ १४९ ।।