पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २८९

तानीदानी व्यलीकानि त्वं मम क्षन्तुमर्हसि । स्खलितं यत्कनिष्ठस्य बन्धोज्येष्ठस्य तन्मुदे ।। १२ ।। भवन्त्युच्चावचा वाचो याः काश्चन दुरोदरे । तासामनुपदी कः स्याद्विशेषेण भवादृशः ॥ १२५ ॥ तत्प्रसीद समभ्येहि गृहाननुगृहाण माम् । संचरख पुनः खैर हस्तिना हस्तिनापुरे ।। १२६ ॥ यजज्ञे त्वय्यवज्ञाभिः पुरा कितवकैतवे । वक्रमाम्भोजरजसा रजस्तन्मे प्रमृज्यताम् ॥ १२७ ॥ सदास्तु मालतीपुष्पस्तबकप्रतिवेश्मिकी । अतः परं तवाज्ञा मे मौलिपल्यङ्कखेलिनी ॥ १२८ ।। अथ चेदार्य तेऽत्यन्तं सत्यव्रतविपर्ययात् । राज्योपभोगैलज्जेत चेतः केतकनिर्मलम् ॥ १२९ ॥ सदामुनाध्वना ये हि साधवः संचरिष्णवः । स्यात्तेषां व्रतनिर्वाहे जाब्यमुड्डामरं परम् ॥ १३०॥ ततोऽनुग्रहमाधाय संविधाय स्थिरं मनः । खस्थेन स्थेयमार्यण नगरे वारणावते ॥ १३१ ॥ आर्यस्य सानुजस्यापि वैरं तत्रापि तिष्ठतः । आत्मचेतोनुरूपाणामुपनेतासि संपदाम् ॥ १३२ ॥ इति विज्ञापितं तुभ्यं वन्धुना तेन बन्धुना । अन्वहं च नियुक्तोऽहमादेशाग्रेसरस्तव ॥ १३३ ।। इत्याख्याय स्थिते तस्मिंस्तूष्णीं कृष्णादयो मुदा । अर्थः समर्थ एवायमेतस्येत्यनुमेनिरे ॥ १३४ ॥ अनुव्रजन्मनास्तेषां तदानीं धर्मनन्दनः। वचः प्रमाणमेवेदमित्युवाच पुरोधसम् ॥ १३५ ॥ स चचाल सकृष्णोऽपि पुरोचनपुरोगमः । बन्धुभिः सममारूढवारणैर्वारणावतम् ॥ १३६ ।।