पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २८७

अवियोगाद्वियोगाच्च तदानीं पुत्रभर्तृभिः । अवाप युगपत्कोटि कुन्ती हर्षविषादयोः ॥९८ ॥ तवासौ पर्यवस्थाता न स्थाता खव्यवस्थया । तद्भवेः सावधानस्त्वमध्वनीनो वनाध्वनि ॥ ९९ ॥ इति धर्मसुतं स्नेहादनुशास्य सगद्गदम् । रुदन्तीं विदुरः कुन्तीमनमन्नम्रमस्तकः ॥ १०० ॥ (युग्मम् ) अथ साश्रुमुखः पाण्डुरभाषिष्ट युधिष्ठिरम् । कान्तारेषु कथं वत्स सकुटुम्बो भ्रमिष्यसि ॥ १०१॥ कथं च त्वद्वियुक्तोऽहं भविष्यामि हताशयः । विना चन्द्र समुद्रस्य दशा जायेत कीदृशी ॥ १०२॥ न शक्नोमि परं वत्स वचस्ते कर्तुमन्यथा । क्षेमवानचिरेणैव दर्शयेर्मुखमात्मनः ॥ १०३ ॥ किंच रत्नमयीमेतां स्फुरद्वामोर्मिमूर्मिकाम् । गृहाणार्तिप्रहाणाय धारयेः पारिपार्श्विकीम् ।। १०४ ।। इत्युदीर्य निवेद्यास्याः सर्वं संभवमादितः । प्रीतश्विक्षेप पाण्डुस्ता ज्येष्ठात्मजकराङ्गुलौ ॥ १०५॥ कुर्वीथाः पुत्रभाण्डेषु देवि यत्नमिति ब्रुवन् । आपृच्छय प्रेयसी पाण्डुर्ययौ सविदुरः पुरम् ॥ १०६ ॥ मातस्तातमहोरात्रं शुश्रूषखेति धर्मजः । उदीर्य सादरं माद्रीं मुमोच पितुरन्तिके ॥ १०७॥ वत्सौ बान्धवसेवायां कुर्यातं निश्चितं मनः । इत्यादिश्य ययौ सापि जगाम सह पाण्डुना ॥ १०८ ॥ अथ प्रतस्थे पुरतः पौरोपेतः पृथासुतः । केवलं केशवेनासौ त्याजितः पादचारिताम् ॥ १०९ ॥ कोऽपि रहखिनं वाहमारुरोह मनोहरम् । कोऽप्यात्माभिमतां मत्तमतगजमतल्लिकाम् ॥ ११० ॥