पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२.८६ काव्यमाला।

भ्रातः कुरुकुलोत्तंस तथैताः पालयेः प्रजाः । पूर्वजोपार्जिता कीर्ति श्नुते म्लानितां यथा ॥ ८५ ।। तस्य वैनयिक पश्यन्खसूनोर्दुनयं पुनः । अपत्रपिष्णुस्तूष्णीको धृतराष्ट्रः पुरं ययौ ॥ ८६ ॥ ज्यायस्यः सत्यवत्याद्याः प्रसाद्य नतिपूर्वकम् । धर्मजेन चने यातुमन्वज्ञाप्यन्त मातरः ॥ ८७ ।। अभिनन्दितमाशीभिर्निर्मिन्नहृदया इव । अतुच्छशोकषीलास्तास्ततः कथमप्यगुः ॥ ८८ ॥ अथ कार्यविदाकार्य लोकमस्तोकमेकतः । नगराय निवर्तध्वमिति भूपतिरादिशत् ॥ ८९ ॥ लोकोऽप्यजल्पदाकल्पमस्साकमनुजीविनाम् । पादा नन्दन्ति यत्रैते तत्रैव नगरं प्रभो ॥ ९० ॥ आत्मानुयायिनी छायां व्यावर्तयसि चेदिमाम् । तदा वयं महीनाथ व्यावर्तेमहि नान्यथा ॥ ९१ ॥ तं तथा बद्धनिर्बन्धं जनं जानन्युधिष्ठिरः । अनुमत्य सहायान्तमवादीद्विदुरं ततः ॥ ९२ ।। वितनोषि त्वमेवार्य प्रीतिमस्मासु पैतृकीम् । देवस्थाजनि पाण्डोस्तु केवलं जन्मकर्तृका(ता) ॥ ९३ ॥ एतावस्मद्वियोगार्तिकातरौ पितरौ पुरः । सहैव नेतुं मोक्तुं वा ब्रूहि किं मम सांप्रतम् ॥ ९४ ॥ जगाद विदुरो वत्स मत्सरी ते सुयोधनः । अतः सर्वकुटुम्बेन समं गन्तुं न युज्यते ॥ ९५ ॥ तदत्रैव तटस्थेन स्थेयं देवेन पाण्डुना । देवी स्थास्यति कुन्ती तु नैव वो विरहासहा ॥ ९६ ॥ एनमाहत्य तन्मन्त्रं नत्वा पाण्डे युधिष्ठिरः । सबाष्पं स्थापयामास विनीतो विदुरान्तिके ।। ९७ ॥