पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २८५

अज्ञानमनृतं लञ्चा निखिलव्यसनं तथा । एते राज्यहृतौ वत्स स्युः पञ्चदश दस्यवः ।। ७२ ॥ प्रत्येकमेषां राज्यश्रीहरणे प्रभविष्णुता । पश्यैकेनापि ते छुते व्यसनेन कियत्कृतम् ॥ ७३ ।। उच्छेदाय तदेतेषां यतेथास्तात सर्वथा । पुनराच्छिद्य तैरात्तामाददीथाः श्रियं यथा ॥ ७४ ।। वर्तेयाश्च तथा तात मानसेनाप्रमादिना । पूर्णेऽवधौ निवर्तेथाः काननात्कुशली यथा ॥ ७५ ॥ इत्याभाष्य गृहान्भीष्मे प्रत्यावृत्ते युधिष्ठिरः। द्रोणाचार्यकृपाचार्यावपृच्छत वनेच्छया ॥ ७६ ॥ द्रोणोऽवादीदविद्राणवात्सल्यो वत्स वत्स्यसि । आकल्पममुना सत्यव्रतेन हृदये सताम् ।। ७७ ।। वत्स धर्मेण सत्त्वेन विनयेन नयेन च । अमुना भुवनस्यास्य भवितासि निदर्शनम् ॥ ७८ ॥ द्रोणो गुरुरमी सर्वे शिष्याः पाण्डवकौरवाः। यद्यप्येवं तथाप्यस्मिन्युष्मासु स विशेषहक् ॥ ७९ ॥ तत्रापि पुत्रवात्सल्यादने निष्पादितस्तथा । मया पार्थों यथा तैस्तैर्गुणैर्जयति मामपि ॥ ८० ॥ तदेतस्मिन्समीपस्थे न ते प्रत्यूहसंभवः । दुस्तरे सन्तु कान्तारे पन्थानः शिवतातयः ॥ ८१ ।। उपोषितानां पीयूषबन्धुना दर्शनेन ते । अचिरेणैव भूयान्मे नेत्राणां पारणोत्सवः ॥ ८२ ॥ इत्युदीर्य गते द्रोणे सकृपे साथुलोचने । निर्व्याज व्याजहारेति धृतराष्ट्र युधिष्ठिरः॥ ८३ ॥ ज्येष्ठतात नमस्तुभ्यं प्रसन्ना देहि नो दृशः। दुर्योधनस्य संदेशं गतो व्याहर्तुमर्हसि ॥ ८४ ॥उत्कोचः