पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८४ काव्यमाला।

इत्थं हरौ शमं नीते विनीतो नीतिकोविदः । धर्मजो बान्धवैः साध भीष्मस्याभ्यर्णमभ्यगात् ॥ ५९ ॥ अब्रवीच बृहत्तात गुरुभ्योऽपि गुरुभवान् । व्यसनत्रासिनीं शिक्षा देहि मे पारिपाश्चिकीम् ॥ ६०॥ अथाभाषत भीष्मोऽपि कुरुगोत्रशितयुते । विश्वत्रयीसंवननं तवैवेदृग्गुणार्जनम् ॥ ६१ ॥ मित्रामित्रपरीक्षार्थ मन्ये व्यसनमप्यदः । त्वयैवात्तं वयं नोचेव भवान्क दरम् ।। ६२॥ जगजैत्रकलाः पार्श्वे यस्यैते सन्ति बान्धवाः । सोऽपि द्यूते विजीयेत स्यान्न चेद्भवितव्यता ।। ६३ ॥ एकाकिनैव कान्तारविहारस्पृहयालना । नियतं त्यक्तुमारब्धा वयमेकपदे त्वया ॥ ६४ ॥ भूत्वा समस्तवस्तूनां संविभागपरः पुरा । इदानीं कथमेकाकी भोक्ष्यसे वनसंपदम् ॥ ६५ ॥ तन्मामप्यनुजानीहि सहागमनहेतवे । चूडाचन्द्रं महेशोऽपि न जातु त्यजति कचित् ।। ६६ ।। कुर्वन्नित्याग्रह भीष्मः पादावाधाय मूर्धनि । विनयाद्धर्मपुत्रेण वारितः पुनरब्रवीत् ॥ ६७ ॥ ग्राह्याः प्रतिभुवः पञ्च चौरास्तु त्रिगुणास्ततः । निग्राह्याः क्षोणिपालेन श्रियःस्थेमानमिच्छता ॥ ६८ ॥ दानमौचित्यविज्ञानं सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च पञ्च प्रतिभुवः श्रियः ।। ६९ ॥ सदा वशंवदैरेतैः प्रतिभूभिरभून्नृपः । एतेभ्यस्त्रिगुणान्यत्स विद्धि राज्यहरान्पुनः ॥ ७० ॥ अरिषड्वर्गसंसर्गः प्रकृती योग्यकर्मसु । नये धर्म प्रतापे च विमुखत्वमनारतम् ॥ ७१ ।।