पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २८३

कंसध्वंसी सुखासीनो निविष्टं विष्टरे पुरः । मनःसंक्रान्तत‌द्दुःखो धर्मनन्दनमभ्यधात् ॥ ४६ ॥ दुर्योधनकवीन्द्रेण स्पष्टाभीष्टार्थदृष्टिना । दुरोदरप्रबन्धोऽयं व्यधायीति श्रुतं मया ॥ ४७ ।। दुर्योधननरेन्द्रस्य द्यूतमन्त्रैकसाधने । उभावभूतां शकुनिः कर्णश्चोत्तरसाधकौ ॥ १८ ॥ अभविष्यन्निकारोऽयं मयि संनिहिते न ते । रोहिणीरमणं राहु‌र्ग्रसते न बुधान्तिके ॥ १९ ॥ इमौ तु बिभितस्तुभ्यं भीमौ भीमधनंजयौ । अन्यथा कुरुतो ह्येतौ वसुधामसुयोधनाम् ॥ ५० ॥ इदानीमप्यमुं दृप्तं रिपुमुच्छिन्दतो ध्रुवम् । तवायं सत्यनिर्वाहजडिमैव ममार्गला ॥ ५१ ।। यत्तु दुश्चरितं तस्य पाञ्चाल्याः केशकर्षणम् । तदेतया ममाशीर्भिर्वाष्पैः पश्य निवेद्यते ॥ ५२ ।। नूतनो मम कोपामिः पाञ्चालीनयनाम्बुभिः । ज्वलितोऽतीव गान्धारीदुरपत्यं दिधक्षति ॥ ५३ ॥ ततः सतीतिरस्कारपाप्मनामधुना फलम् । तं दुष्टं लम्भयिष्यामि मास्म प्रत्यूहमावहः ॥ ५४ ॥ इत्युक्त्वा विरते विष्णौ कृष्णाहृदयवल्लभः । मूर्ध्न्या प्रणम्य सद्बुद्धिर्बद्धाञ्जलिरदोऽवदत् ॥ ५५ ॥ कंसान्तक त्वयि क्रुद्धे नहि शक्रोऽपि विक्रमी। मनुष्यकृमयः केऽमी पुनर्योधनादयः ॥ ५६ ॥ सत्यातिक्रमकौलीनं मदीयं किंतु लोकतः । समाकर्ण्य त्वमेवात्र विश्वत्राता त्रपिष्यसे ।। ५७ ॥ निषिद्धौ बान्धवावेतौ मया देशवशंवदौ । त्वं तु व्यावर्तसेऽमुष्मादारम्भाचेत्प्रसीदसि ॥ ५८॥