पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८२ काव्यमाला

ततस्तयोपनीतायां रसवत्यां पृथाज्ञया । तं जनं भोजयामास प्रमोदाद्द्रुपदात्मजा ॥ ३३ ॥ विनयान्निजबन्धूनां राज्यसौख्यातिशायिनाम् । सुखेन धर्मसूनुस्तं गमयामास वासरम् ॥ ३४ ॥ अपरेद्युर्महाबाहुः पित्रादेशात्स्वदेशतः । पाञ्चालदुहितुर्बन्धुर्धृष्टद्युम्नः समाययौ ॥ ३५॥ प्रणम्य धर्मपुत्रादीनुपतस्थे स सोदराम् । अवादीच्च कथं दीनमित्थं धत्से मुखं स्वसः ॥ ३६ ॥ हस्तिनापुरचारिभ्यश्चारेभ्यश्छद्मना कृतम् । श्रुत्वा प्रवासमेवं वस्तातेन प्रहितोऽस्म्यहम् ॥ ३७ ॥ इदानीमपि सोदर्ये निजशौर्येण विष्टपम् । अदुर्योधनमादध्यां मन्यते नु पतिर्न ते ॥ ३८ ॥ ततः सत्यजडो यावद्वने द्वादशवत्सरीम् । नीत्वा ते पतिरभ्येति तावदेहि गृहं पितुः ॥ ३९ ॥ इत्युक्त्वा प्रत्यभाषिष्ट पाञ्चालनृपतेः सुता। दुर्योधनवधे विघ्नो राजैव भीमपार्थयोः ॥ ४० ॥ पाण्डवानां पदैर्यानि पावनानि वनान्यपि । मां तान्येव रोचन्ते कृतं पितृगृहेण मे ॥ ११ ॥ केवलं सरलान्बालान्भागिनेयान्निजानमून् । पश्चाप्यादाय पाञ्चालान्त्रज त्वं विजयी भव ॥ ४२ ॥ एवमुक्तस्तया स्नेहाद्धर्मसूनोरनुज्ञया । धृष्टद्युम्नः पतद्वाप्पस्तान्गृहीत्वा गृहं ययौ ।। ४३ ॥ अन्येद्युरभ्रमूकान्तकान्तदन्तावलं वलम् । विभ्रन्नारायणः प्रीत्या युधिष्ठिरमुपाययौ ।। ४४ ॥ प्रत्युद्गम्य तमायान्तं प्रणमन्ति स्म पाण्डवाः । वबन्द द्रुतमभ्येत्य सोऽपि कुन्तीपदाम्बुजम् ॥१५॥१. कोपेपलक्ष्यमानस्यात्रमुशब्दस्य हखत्याहीर्घत्वना चिन्त्यम्.