पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २८१

ततो भयार्तमत्युच्चमुच्चरत्प्रतिनिस्वनम् । द्रौपदी रोदसीभेदकोविदं विदधे ध्वनिम् ॥ २० ॥ तेनाथ ध्वनिनाकृष्टः कोपाटोपादुपेत्य तम् । भीमो निर्भर्त्सयांचक्रे किमिदं पाप चापलम् ॥ २१ ॥ दीर्घाध्वपथिकी श्रान्तां प्रवासेन विषेदुषीम् । प्रियां भीषयसे मे त्वमधुना भुङ्क्ष्व तत्फलम् ॥ २२ ॥ इत्याक्षिप्य गदाघातैस्तं नीत्वान्तं वृकोदरः। योऽस्ति दुर्योधनक्रोधस्तन्मुष्टिं कृष्टवांस्तदा ।। २३ ॥ दुर्योधनवधारम्भे किर्मीरं तस्य वल्लभम् । निहत्यास्थापयद्भीमो भद्रायोंकारमादिमम् ॥ २४ ॥ इमं किर्मीरवृत्तान्तमविदन्नेव भूपतिः । आजगाम लतारम्यं काम्यकं नाम काननम् ॥ २५ ॥ तदा विकर्तन(नः) कर्तुमात्मानमिव पावनम् । अध्यास्य नभसो मध्यमास्यं तस्यास्पृशत्करैः ॥ २६ ॥ कुकर्मकर्मठेऽत्यन्तक्रोधादिव सुयोधने । कर्मसाक्षी तदा मङ्गु जज्वाल ज्वलनोपमः ॥ २७ ॥ माता(त)पितृजनः सर्वः पादचारेण खिद्यते । तत्पश्चरात्रमत्रैव देवावस्थीयतामिति ॥ २८ ॥ मुहुर्विज्ञापितो भीमसेनेन वसुधाधिपः । सर्वेषामपि लोकानामप्रयाणं समादिशत् ॥ २९॥ (युग्मम् ) अपाथेयो जनस्तत्र तपनातपविक्लवः । बाहूपधानः सर्वोऽपि सुष्वाप प्रतिपादपम् ॥ ३० ॥ तादृशे वनवासेऽपि तेषामात्मानुगामिनाम् । वृत्तिचिन्ता दुनोति स्म धर्मनन्दनमानसम् ॥ ३१ ॥ ज्ञात्वा तादृन्मनो राज्ञः पार्थः सस्मार सत्वरम् । विद्यां मनोहराहारसमाहरणकोविदाम् ॥ ३२ ॥