पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।

इत्यापृच्छ्य पतद्बाष्पा केलिपात्राणि सर्वतः । बद्धा परिकरं कृष्णा कुन्तीपृष्ठस्थिताचलत् ॥ ७ ॥ (त्रिभिर्विशेषकम्). लोकोऽपि पुरवास्तव्यो गुणगृह्यतया परम् । विहाय गृहसर्वस्वं धर्मनन्दनमन्वगात् ॥ ८ ॥ सर्वैः साकं सशोकैस्तैः पार्वणेन्दुसमाननः । धर्मात्मजः पुरान्निर्यन्मूर्तो धर्म इवाबभौ ॥ ९ ॥ विसंकटेऽपि संघट्टसंकटे पथि गच्छताम् । परस्परस्य लोकानां मिथः पप्रथिरे कथाः ॥१०॥ निजं नलेन साम्राज्यं पुरा द्यूते पणीकृतम् । हा हा युधिष्ठिरेणापि तदिदानीमनुष्ठितम् ॥ ११ ॥ धिग्धिग्दुर्योधनं येन महात्मा धर्मनन्दनः । कृत्वा द्यूतमयं छद्म त्याजितो राज्यसंपदम् ॥ १२ ॥ दुर्योधनस्य न स्थास्नु राज्यमात्रमपि ध्रुवम् । यावद्विजयिनावेतौ वृकोदरकिरीटिनौ ॥ १३ ॥ किं चान्यत्प्रतिपाञ्चालि यदनेन प्रपञ्चितम् । आलप्यालं तदस्माकमेतस्यैव फलिष्यति ॥ १४ ॥ जनानां सानुरागाणामित्थमुत्तस्थिरे गिरः । केषां न पक्षपातः स्यात्तादृशेषु महात्मसु ॥ १५ ॥ अथान्यमनसं कृष्णां क्रूरः किर्मीरराक्षसः । अकस्मान्नभसोऽभ्येत्य भापयामास वर्त्मनि ॥ १६ ॥ भषीकृष्णवपुः पिङ्गविकीर्णघनमूर्द्धजः । स मौलिप्रज्वलद्दावो विन्ध्याचल इवाबभौ ॥ १७ ॥ गवलश्यामलो बिभ्रदङ्गारसदृशौ दृशौ । जहास प्रलयाकाशमुदिताङ्गारकद्वयम् ॥ १८ ॥ भुजङ्गीतरलां जिह्वां बिभ्राणं द्रौपदीपुरः । दन्तैः कृतान्तकुन्ताभैर्भीमं स व्याददौ मुखम् ॥ १९ ॥