पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २७९

गुरूणामनुरोधेन पाण्डवेयानधोमुखान् । नित्ययौवनया सार्धमनुमेने वनाय सः॥ १०१८ ॥ याज्ञसेनीं पुरस्कृत्य मूर्ती धृतिमिवात्मनः । पदातयः सुताः पाण्डोरिन्द्रप्रस्थात्प्रतस्थिरे ॥१०१९ ॥ जाह्नवेयादयो वृद्धाः स्नेहसंदोहमोहिताः। मन्यूर्मिमलिनास्यास्तानन्वगुः पादचारिणः ॥ १०२० ॥ संतताश्रुपयःपूरैः पङ्किलीकृतवर्मभिः । ते तथा पथि गच्छन्तो निरीक्षांचक्रिरे जनैः ॥ १०२१ ॥ हारिताखिलनरेन्द्रसंपदः पाण्डवाः स्फुरदखण्डतेजसः । मातरं च पितरं च वीक्षितुं हस्तिनापुरमुपागमन्पुनः ॥ १०२२ ।।

इति मलधारिश्रीदेवप्रभसूरिविरचिते महाकाव्ये पाण्डवचरिते नलोपाख्यानद्यूत- वर्णनो नाम षष्ठः सर्गः ॥ ६॥

सप्तमः सर्गः। अथ धर्मसुतः सत्यनिर्वाहस्पृहयालुना। मनसा वनवासाय प्रतस्थे हस्तिनापुरात् ॥ १ ॥ भीमादयः सह ज्यावतसंनद्धबुद्धयः । खखशस्त्रादिसामग्रीसमग्राश्चेलुरप्रतः ॥ २ ॥ पाण्डुश्च धृतराष्ट्रश्च भीष्मश्च लेहमोहिताः । निर्यद्वाष्पजलोत्पीडाः पाण्डवाननु वत्रजुः ।। ३ ॥ सत्यवत्यादयः सर्वाः शोकाती ज्येष्ठमातरः । दासीहस्तकृतालम्बा बभूवुः पाण्डवानुगाः ॥ ४ ॥ भद्रं तवास्तु क्रीडाद्रे क्रीडावापि नमोऽस्तु ते । क्रीडावन तव क्षेमं पुनर्वः संगमः कुतः ॥ ५॥ हंहो बर्हिन्नहो हंस हले हरिणि हे शुक । कुशलं वोऽस्त्वसौ दैवाद्याति वः परिचारिका ॥ ६ ॥