पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

तत्कथं सहतां नाम भीमः कान्तापराभवम् । . न प्रियागःसहास्तेऽपि पक्षिणः किमु दोर्भृतः ॥ १००५॥ अदुःशासनमद्रोणमकर्णमसुयोधनम् । अभीष्मधृतराष्ट्रं च राष्ट्रं भीमः करिष्यति ॥ १००६ ॥ तत्कथं सर्वसंहारमिदानीमप्युपेक्षसे । घातय क्रूरकर्माणमेनमेकं सुयोधनम् ॥ १००७॥ नैवं चेत्तदमुं पापं पापादस्मान्निवर्तय । अमी वनाय गच्छन्तु पाञ्चाल्या सह पाण्डवाः॥१००८॥ पुनरेत्यावधेरन्ते भुञ्जन्तां जगतीं निजाम् । न चेत्कुटुम्बसंवर्तस्तवाद्यायमुपस्थितः ।। १००९ ।। इति भ्रातुर्गिरा भीतिप्रथमानाङ्गवेपथुः । बभाषे भृशमाक्रोशन्धृतराष्ट्रः सुयोधनम् ।। १०१० ॥ आः पापकर्म चाण्डाल सदाचारवनद्विप । निरपत्रप नाद्यापि दुष्कर्मभ्यो निवर्तसे ॥ १०११॥ विसुज खैरचाराय बान्धवान्सह जायया । न चेन्मत्करवालोऽयं शिरस्ते न सहिष्यते ॥ १०१२ ।। पितुर्गिरमिति श्रुत्वा मनःकलुषमुच्चकैः । भीष्मादीनां च संभाव्य भाषते स्म सुयोधनः ।। १०१३ ।। ममाप्येकं वचस्तर्हि वर्षीयांसो भवत्वदः । नेतव्यं पाण्डवैः क्वापि गुप्तैर्ष त्रयोदशम् ॥ १०१४ ॥ निगूढानप्यमूंस्तसिंश्चेज्जानामि कथंचन । तन्मेदिनीमिमां भुञ्जे पुनर्द्वादशवत्सरीम् ॥ १०१५॥ अमीभिस्तु पुनस्तावद्विधातव्या बने स्थितिः । इत्युक्तिं पाण्डवास्तस्य गुर्वादेशात्प्रपेदिरे ॥ १०१६ ।। निदेशाद्धृतराष्ट्रस्य द्रोणगाङ्गेययोरपि । आर्पयत्पाण्डुपुत्राणां प्रावारान्कौरवाग्रणीः॥१०१७ ।।