पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २७७

मनुष्यपांसनः क्षिप्रमाचकर्ष तदप्यसौ । भूयोऽप्याविरभूतादृक्तस्याः श्रोणितटेऽम्बरम् ॥ ९९२ ।। इत्थमाकर्षतस्तस्य बभूव वसनोत्करः । क्लान्तश्चायमपीयाय दृष्टः स्मेराननैर्जनैः ।। ९९३ ।। अथ क्रोधोदयात्ताम्रचक्षुरूर्द्ध्वजकुन्तलः । रोमाञ्चकवची खेदमेदुराङ्गः सवेपथुः ॥ ९९४ ॥ पाणिना पाणिमुत्पिंषन्सर्वतो वीक्ष्य संसदम् । विकाशिनासिकाकोशः प्रत्यज्ञासीद्वृकोदरः ।। ९९५ ॥ येनानीता सभां कृष्णा बलादालम्ब्य कुन्तलैः । गुरूणां पश्यतां चास्याः श्रोणेराकृष्टमम्बरम् ॥ ९९६ ॥ बाहुदण्डं न चेत्तस्यामूलादुन्मूलयाम्यहम् । कवोष्णैश्चाभिषिञ्चामि न वक्षःशोणितैः क्षितिम् ।। ९९७ ।। येन च सरकल्लोलकेलिमिर्लोलितात्मना । द्रौपद्या दर्शितः खैरमूरुदशो रिरसुना ॥ ९९८ ॥ तस्योरं गदया तूर्णं चूर्णीमावं नये न चेत् । तन्न मे पाण्डुना जन्म न च क्षत्रवतं कचित् ॥ ९९९ ॥ इत्युदीरितवत्युच्चैीमे संभावितौजसि । सभाक्षोभोऽजनि क्षीरपाथोधिमथनोपमः॥ १००० ।। मध्येसभमथोत्थाय धृतराष्ट्रमदुष्टधीः । जगाद विदुरः शोकसंभारविदुराशयः ॥ १००१ ।। प्रसूतमात्र एवायं पुराख्यायि मयापि ते। दुरात्मा कुलकल्पान्तधूमकेतुः सुयोधनः ।। १००२ ॥ किमीदृक्क्रियते कर्म चण्डालानां कुलेष्वपि । कैतवेन विजीयन्ते भ्रातरोऽपि यदात्मनः ॥ १००३ ॥ पुरो गुरूणामानीय केशैरादाय तत्प्रियाम् । तन्नितम्बस्थलाद्वासो निःशङ्कं यच्च कृष्यते ॥ १००४ ।।