पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

यदि गोत्रगरीयांसः केऽपि स्युमहिमोन्नताः । बल्लभा अपि केऽपि स्युर्यदि मे भुजशालिनः ॥ ९७९ ॥ मर्षयेयुस्तदेतस्य किमेतदनुजस्य च । जीवितव्यकथाकन्थामित्थमन्यायवर्तिनोः ॥ ९८० ।। (युग्मम्) किंचान्तःस्वान्तमालोच्य कथयन्तु सभासदाः । हारितः स्वात्मना भर्ता भवेयं यदि हारिता ।। ९८१ ।। अथाभ्यधत्त राधेयः सभ्यान्किमियमङ्गना। विजिते राज्यसर्वस्वे न तदन्तर्गता जिता ।। ९८२ ।। अथैकवाससोऽमुष्या मध्येसंसन्मतं न वः । बलादानयनं कापि नेयमप्यव्यवस्थितिः ॥ ९८३ ।। एक एव पतिर्लोके योषितामुपगीयते । अनेकप्रेयसीयं तु बन्धक्येव न संशयः ॥ ९८४ ।। तदेकवसनत्वं वा वस्त्रराहित्यमप्यथ । पर्षदानयनं वापि नैतस्याः खल्वसांप्रतम् ॥ ९८५ ॥ इति कोक्तिमाकर्ण्य क्रोधाध्माताशया अपि । दुर्योधनमिया सभ्यास्तूष्णीमेवावलम्बिरे ॥ ९८६ ।। गान्धारेयोऽभ्यधात्क्रोधस्फुरदोष्ठपुटोऽनुजम् । जितवेयं मया सभ्यैरजानद्भिनिवेदिता ।। ९८७ ।। तत्सतीमानिनीमेनामुन्मोच्याताग्रेनाम्बरम् । परिधाप्य जरद्दण्डीखण्डं दासीषु निर्दिश ॥ ९८८ ।। इति दुःशासनो दुष्टज्येष्ठबान्धवशासनात् । नितम्बादम्बरं पाण्डुसुषायाः स्वैरमाकृषत् ॥ ९८९ ॥ मामेति दीनजल्पाक्या प्रक्षिपन्त्या मुखेऽङ्गुलीम् । रुन्धत्यास्तत्करौ कामं पश्यन्त्याः पर्षदाननम् ॥ ९९० ॥ दुष्टात्मनांशुके कृष्टे तेनास्या ददृशुर्जनाः । दैवतेनानुभावेन तादृगेवान्यदंशुकम् ।। ९९१ ॥ (युग्मम् )