पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७५ पाण्डवचरितम् ।

क्रन्दन्तीति गलन्नेत्रनीरनीराजितक्षितिः । तेन कृष्टा जनैर्दृष्टा सा मृगीव मृगारिणा ॥ ९६६ ॥ शतशः शपमानानां तदा दुःशासनं सताम् । न च सारस्वतोल्लासलासिनी रसनाभवत् ।। ९६७ ।। तपःसूनोरपि ज्ञानधर्मन्यायशमादिषु । जनः सावज्ञ एवाभूत्क्लिश्यमानां विलोक्य ताम् ॥ ९६८॥ नेताश्रुसलिलैः कूलंकषस्रोतस्विनीमयी । नूतना प्रावृडारेभे लोकैः शोकाकुलैस्तदा ॥ ९६९ ।। तामेकवसनामश्रुविक्लवाक्षीं त्रपानताम् । निनाय न्यायशून्यात्मा हठादुःशासनः सभाम् ॥ ९७० ॥ उल्लसदैन्यमालिन्यां सा मषीकूर्चिकामिव । तत्र व्यापारयामास मुखेषु प्रेयसां दृशम् ।। ९७१ ।। तामालोक्य तथाभूतां त्रपाकलुषिताशयाः । प्रेक्षामासुः सुताः पाण्डोर्विवक्षव इव क्षितिम् ॥ ९७२ ।। गृहेऽप्येतदरक्षन्तः किं द्रष्टव्यानना वयम् । इतीव पिदधुर्वक्र हिया भीष्मादयोऽशुकैः॥ ९७३ ॥ दृशो द्रुपदनन्दिन्यां नवरागतरङ्गिताः । कौरवाधिपतेः पेतुः कामपल्लविता इव ॥ ९७४ ॥ कृशोदरि चिरादासीदनुरागो मम त्वयि । हन्तायमन्तरायोऽभूत्पाण्डवैः पाणिपीडनम् ॥ ९७५ ॥ इदानीमप्युपागत्य झटित्येवास्यतामितः । इत्यूरुं दर्शयामास याज्ञसेन्याः सुयोधनः ॥९७६॥ (युग्मम्) अथावोचत पाञ्चाली कोपकम्प्रतराधरा । कुरुराजान्वयोदन्वत्कालकूटकुलाशने ॥. ९७७ ॥ भस्मसात्किं न जातोऽसि चिन्तयाप्यनया मयि । कोटरान्तर्गतोऽप्यग्निर्दहत्येव महीरुहम् ॥ ९७८ ॥ (युग्मम्)