पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

ततो दुःशासनो लुप्तगरीयःसाधुशासनः । स्मेरवक्राम्बुजोऽभ्येत्य पाञ्चलीमित्यवोचत ॥ ९५३ ।। तेन दुर्मेधसा पत्या हारितासि दुरोदरे । त्वं जितासि च पाञ्चालि धार्तराष्ट्राग्रजन्मना ॥ ९५४ ॥ ततः स भवतीं प्रीतिप्रहमाह्वयति द्रुतम् । न चेदेष्यसि नेष्यामि तद्बलादपि भामिनि ॥ ९५५ ॥ पाञ्चालदुहितावोचन्नन्वद्यास्मि रजस्वला । एकांशुका च तत्संसद्युपागच्छाम्यहं कथम् ॥ ९५६ ॥ किंच किंचन पृच्छामि कश्चिदात्मनि हारिते। अहारिते वा तेनास्मि हारिता जगतीभुजा ॥ ९५७ ।। हारितापि न तेनास्मि हारिता हारितात्मना । स्वकायेऽप्यखतन्त्रस्य का नाम प्रभविष्णुता ॥ ९५८ ॥ प्रातरुचण्डमार्तण्डरोचिराचान्तदीधितिः । जानीहि रजनीनाथो रजन्या अप्यनीश्वरः ।। ९५९ ॥ तामित्युक्तवती क्रुध्यन्नूचे दुर्योधनानुजः । धिग्वाचालासि पाञ्चालि पुरो भवसि किं न हि ।। ९६०॥ धर्मस्थेये त्वमेवासि सांप्रतं किमधीतिनी । जाने तमपि जानासि बृहस्पतिमकोविदम् ॥ ९६१ ।। इत्युदीर्य स कस्तूरीभराकरितकान्तिषु । चकर्ष विहितामर्षः केशेषु द्रुपदात्मजाम् ॥ ९६२ ॥ आः पाप कुरुभूपालगोत्रकिपाकपादप । कि मामेवंविधामेवं नेतासि गुरुसंनिधौ ॥ ९६३ ।। नारङ्गास्थगितं यस्याः कोऽपि नापश्यदाननम् । हा सर्वेऽनावृताङ्गीं तां द्रक्ष्यन्ति गुरवोऽद्य माम् ॥ ९६४ ॥ दुरात्मन्कि भवत्कर्म कर्मसाक्ष्यपि नेक्ष्यते । यन्न क्षणात्क्षिणोति त्वां परस्त्रीस्पर्शपांशुलम् ॥ ९६५ ॥